Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 418
________________ उद्देशकः १, मूलं-६, [भा. १६३८] ४१५ [भा.१६३८] पव्वजाए मुहुत्तो, जहन्नमुक्कोसिया उ देसूना ॥ आगमकरणे भइया, ठियकप्पे अट्ठिए वा वि॥ वृ-प्रतिपद्यमानका अमी प्रथमे वा-सामायिकाख्ये द्वितीये वा-छेदोपस्थापनीयाख्ये चारित्रे भवेयुः । ‘इतरे नाम' पूर्वप्रतिपन्नास्ते सर्वेष्वपि चरणेषु भवन्ति, सामायिकादिषु यथाख्यातपर्यन्तेष्विति भावः । तथा नियमादमी तीर्थे भवन्ति नातीर्थे । पर्यायो द्विधा-गृहिपर्यायः प्रव्रज्यापर्यायश्च । तत्र गृहिपर्यायो जघन्यतो जन्मत आरभ्याष्टौ वर्षाणि, उत्कर्षतः पूर्वकोटी । प्रव्रज्यापर्यायोजघन्यतोऽन्तर्मुहूर्त्तम्, तदनन्तरंमरणात्प्रतिपाताद्वा, उत्कर्षतस्तुदेशोना पूर्वकोटी। आगमः-अपूर्वश्रुताध्ययनं तस्य करणे भाज्याः' अमी कुर्वन्ति वान वातमिति भावः । कल्पद्वारेस्थिकल्पे वा अस्थितकल्पे वा भवेयुः । वेदद्वारं सुज्ञानत्वाद् भाष्यकृता न भावितम् । इत्थं तु द्रष्टव्यम्-वेदः स्त्री-पुं-नपुंसकभेदात् त्रिविधोऽप्यमीषां प्रतिपत्तिकाले भवेत्, पूर्वप्रतिपन्नकानां त्ववेदकत्वमपि भवतीति॥ [भा.१६३९] भइया उ दव्वलिंग, पडिवत्ती सुद्धलेस-धम्मेहिं । पुवपडिवनगा पुन, लेसा झाणे अअन्नयरे ॥ वृ-प्रतिपद्यमानकाः पूर्वप्रतिपन्नकाश्च द्रव्यलिङ्गे 'भक्ताः' विकल्पिताः, कदाचित् तद् न भवत्यपीति भावः । भावलिङ्गं तु नियमात् सर्वदैव भवति । तथा प्रतिपत्ति शुद्धलेश्याधर्मध्यानयोर्भवेत् । किमुक्तं भवति ?-प्रथमतः प्रतिपद्यमानकाः शुद्धास्वेव तिसृषु लेश्यासु आज्ञाविचयादौचधर्मध्याने वर्तमानाः प्रतिपत्तव्याः।पूर्वप्रतिपन्नकाः पुनः षन्नां लेश्यानामन्यतरस्यां लेश्यायामार्त्तादीनांचचतुर्णां ध्यानानामन्यतरस्मिन् ध्याने भवेयुः।। अथ लेश्या-ध्यानयोः कः प्रतिविशेषः ? उच्यते-लिश्यते-रिलष्यते कर्मणा सह या जीवः सा लेश्या-कृष्णादिद्रव्यसाचिव्यजनितो जीवस्य शुभाशुभरूपः परिणामविशेषः । उक्तञ्च कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । __ स्फटिकस्येव तत्रायं, लेश्याश्दः प्रवर्तते ।। सच चलो वा स्यादचल वा । ध्यानं पुनर्निश्चल एवाशुभः शुभो वा आत्मनः परिणामः । तथा चाह[भा.१६४०] झाणेण होइ लेसा, झाणंतरओ व होइ अन्नयरी। अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि॥ कृ-लेश्या द्विविधा-द्रव्यतोभावतश्च।तत्र द्रव्यलेश्यामुपरिष्टावक्ष्यति।भावलेश्यात्वनन्तरोक्त एव शुभाशुभरूपो जीवपरिणामः । सा चैवंविधा शुभाशुभपरिणामरूपा कृष्णादीनामन्यतमा "लेस"त्तिभावलेश्याध्यानेन वाभवति ध्यानान्तरत वा। ध्यानान्तरं नाम-अध्ढाध्यवसायरूपा चिन्ता, यद्वाध्यानस्य चान्तरिकाध्यानान्तरमुच्यते।ध्यानं पुनः 'दृढः' निश्चलोऽध्यवसायोऽशुभो वा शुभो वा मन्तव्यम् । सच निश्चलोऽध्यवसायो मानसो वाचिकः कायिकश्चेति त्रिधा द्रष्टव्यः। ढश्चाध्यवसायोऽन्तर्मुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य कर्तुमशक्यत्वात्। यश्चादौऽध्यवसायः स सर्वोऽपि चिन्तेत्यभिधीयते॥आह यद्येवंतर्हि चिन्ताध्यानयोरन्यवमापन्नम्? उच्यते-नायमेकान्तः किन्तु स्यादेकत्वं स्यादन्यत्वम् । कथं पुनः? इति Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532