________________
उद्देशकः १, मूलं-६, [भा. १६३८]
४१५ [भा.१६३८] पव्वजाए मुहुत्तो, जहन्नमुक्कोसिया उ देसूना ॥
आगमकरणे भइया, ठियकप्पे अट्ठिए वा वि॥ वृ-प्रतिपद्यमानका अमी प्रथमे वा-सामायिकाख्ये द्वितीये वा-छेदोपस्थापनीयाख्ये चारित्रे भवेयुः । ‘इतरे नाम' पूर्वप्रतिपन्नास्ते सर्वेष्वपि चरणेषु भवन्ति, सामायिकादिषु यथाख्यातपर्यन्तेष्विति भावः । तथा नियमादमी तीर्थे भवन्ति नातीर्थे । पर्यायो द्विधा-गृहिपर्यायः प्रव्रज्यापर्यायश्च । तत्र गृहिपर्यायो जघन्यतो जन्मत आरभ्याष्टौ वर्षाणि, उत्कर्षतः पूर्वकोटी । प्रव्रज्यापर्यायोजघन्यतोऽन्तर्मुहूर्त्तम्, तदनन्तरंमरणात्प्रतिपाताद्वा, उत्कर्षतस्तुदेशोना पूर्वकोटी। आगमः-अपूर्वश्रुताध्ययनं तस्य करणे भाज्याः' अमी कुर्वन्ति वान वातमिति भावः । कल्पद्वारेस्थिकल्पे वा अस्थितकल्पे वा भवेयुः । वेदद्वारं सुज्ञानत्वाद् भाष्यकृता न भावितम् । इत्थं तु द्रष्टव्यम्-वेदः स्त्री-पुं-नपुंसकभेदात् त्रिविधोऽप्यमीषां प्रतिपत्तिकाले भवेत्, पूर्वप्रतिपन्नकानां त्ववेदकत्वमपि भवतीति॥ [भा.१६३९] भइया उ दव्वलिंग, पडिवत्ती सुद्धलेस-धम्मेहिं ।
पुवपडिवनगा पुन, लेसा झाणे अअन्नयरे ॥ वृ-प्रतिपद्यमानकाः पूर्वप्रतिपन्नकाश्च द्रव्यलिङ्गे 'भक्ताः' विकल्पिताः, कदाचित् तद् न भवत्यपीति भावः । भावलिङ्गं तु नियमात् सर्वदैव भवति । तथा प्रतिपत्ति शुद्धलेश्याधर्मध्यानयोर्भवेत् । किमुक्तं भवति ?-प्रथमतः प्रतिपद्यमानकाः शुद्धास्वेव तिसृषु लेश्यासु आज्ञाविचयादौचधर्मध्याने वर्तमानाः प्रतिपत्तव्याः।पूर्वप्रतिपन्नकाः पुनः षन्नां लेश्यानामन्यतरस्यां लेश्यायामार्त्तादीनांचचतुर्णां ध्यानानामन्यतरस्मिन् ध्याने भवेयुः।। अथ लेश्या-ध्यानयोः कः प्रतिविशेषः ? उच्यते-लिश्यते-रिलष्यते कर्मणा सह या जीवः सा लेश्या-कृष्णादिद्रव्यसाचिव्यजनितो जीवस्य शुभाशुभरूपः परिणामविशेषः । उक्तञ्च
कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः ।
__ स्फटिकस्येव तत्रायं, लेश्याश्दः प्रवर्तते ।। सच चलो वा स्यादचल वा । ध्यानं पुनर्निश्चल एवाशुभः शुभो वा आत्मनः परिणामः । तथा चाह[भा.१६४०] झाणेण होइ लेसा, झाणंतरओ व होइ अन्नयरी।
अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि॥ कृ-लेश्या द्विविधा-द्रव्यतोभावतश्च।तत्र द्रव्यलेश्यामुपरिष्टावक्ष्यति।भावलेश्यात्वनन्तरोक्त एव शुभाशुभरूपो जीवपरिणामः । सा चैवंविधा शुभाशुभपरिणामरूपा कृष्णादीनामन्यतमा "लेस"त्तिभावलेश्याध्यानेन वाभवति ध्यानान्तरत वा। ध्यानान्तरं नाम-अध्ढाध्यवसायरूपा चिन्ता, यद्वाध्यानस्य चान्तरिकाध्यानान्तरमुच्यते।ध्यानं पुनः 'दृढः' निश्चलोऽध्यवसायोऽशुभो वा शुभो वा मन्तव्यम् । सच निश्चलोऽध्यवसायो मानसो वाचिकः कायिकश्चेति त्रिधा द्रष्टव्यः। ढश्चाध्यवसायोऽन्तर्मुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य कर्तुमशक्यत्वात्। यश्चादौऽध्यवसायः स सर्वोऽपि चिन्तेत्यभिधीयते॥आह यद्येवंतर्हि चिन्ताध्यानयोरन्यवमापन्नम्? उच्यते-नायमेकान्तः किन्तु स्यादेकत्वं स्यादन्यत्वम् । कथं पुनः? इति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org