________________
४१६
बृहत्कल्प-छेदसूत्रम् -१-१/६
उच्यते[भा.१६४१] झाणं नियमा चिंता, चिंता भइया उ तीसु ठाणेसु ।
झाणे तदंतरम्मि उ, तव्विवरीया व जा काइ॥ वृ-यमनःस्थैर्यरूपं ध्यानं तद् नियमात् चिन्ता । चिन्तातु 'भक्ता' विकल्पिता त्रिषुस्थानेषु। तथाहि-कदाचिद् ‘ध्याने ध्यानविषया चिन्ता भवतियदा ढाध्यवसायेन चिन्तयति। “तदंतरम्मि उ"तितस्य-ध्यानस्यान्तरं तदन्तरंतस्मिन् वा चिन्ता भवेत्,ध्यानान्तरिकायामित्यर्थः। तद्विपरीता वा' या काचिद्ध्याने ध्यानान्तरिकायां वा नावतरति किन्तु विप्रकीर्णा चित्तचेष्टा साऽपि चिन्ता प्रतिपत्तव्या।अतोयदा ढाध्यवसायेनचिन्तयतितदा चिन्ताध्यानयोरेकत्वम्, अन्यदा पुनरन्यत्वम्। अथ ध्यानस्यैव भेदानाह[भा.१६४२] कायादि तिहिक्किकं, चित्तं तिव्व मउयं च मज्झंच ।
जह सीहस्स गतीओ, मंदा य पुता दुया चेव ॥ सत् पुनढाध्यवसायात्मकं चित्तं त्रिधा-कायिकं वाचिकं मानसिकं च । कायिकं नाम यत् कायव्यापारेण व्याक्षेपान्तरं परिहरन्नुपयुक्तो भङ्गकचारणिकां करोति, कूर्मवद्वा संलीनाङ्गोपाङ्गस्तिष्ठति । वाचिकंतु 'मयेद्दसी निरवद्या भाषा भाषितव्या, नेसी सावद्या' इति विमर्शपुरस्सरं यभाषते, यद्वा विकथादिव्युदासेन श्रुतपरावर्तनादिकमुपयुक्तः करोति तद्वाचिकम्।मानसं - त्वेकस्मिन् वस्तुनि चित्तस्यैकाग्रता । पुनरेकैकं त्रिविधम्-तीव्र मृदुकं च मध्यं च । तत्र तीव्रम्उत्कटम्, मृदुकं च-मन्दम्, मध्यं च-नातितीव्र नातिमृदुकमित्यर्थः । यथा सिंहस्य गतयस्तिम्रो भवन्ति । तद्यथा-मन्दाचप्लुता चद्रुता चैव।तत्रमन्दा-विलम्बिता, प्लुता-नातिमन्दानातित्वरिता, द्रुता च-अतिशीघ्रवेगा ।। स्याद् बुद्धि : केयं पुनध्यान्तिरिका ? इति उच्यते[भा.१६४३] अन्नतरझाणऽतीतो, बिइयं झाणं तु सो असंपत्तो।
झाणंतरम्भिवट्टइ, बिपहे व विकुंचियमईओ॥ वृ-अन्यतरस्माद्-द्रव्याद्यन्यतरवस्तुविषयाद्ध्यानादतीतः-अतिक्रान्तोयः कश्चिदद्यापिद्वितीयं ,ध्यानं न सम्प्राप्नोति स द्वितीयं ध्यानमसम्प्राप्तः सन् यद् ध्यानान्तरे वर्तते सा ध्यानान्तरिका भवतीति शेषः । इयमत्र भावना-द्रव्यादीनामन्यतमंध्यातवतो यदा चित्तमुत्पद्यते 'सम्प्रतिशेषाणां ध्यातव्यानां कतरद्ध्यायामि?' इत्येवंविधो विमर्शो ध्यानान्तरिकेत्युच्यते। दृष्टान्तोऽत्र “बिपहे व विकुंचियमतीउ' त्ति द्विपथ-मार्गद्वयस्थानम्, ततो यथा कश्चिदेकेन पथा गच्छन् पुरस्ताद् 'द्विपथे' मार्गद्वये दृष्टे सति 'विकुञ्चिमतिकः' 'अनयोर्गियोः कतरेण व्रजामि ?' इति विमर्शाकुलबुद्धि सन्नपान्तराले वर्तते, एवमेषोऽपिध्यानान्तरे इति॥
अथ शुभाशुभध्यानज्ञापनार्थमिदमाह[भा.१६४४] वण्ण-रस-गंध-फासा, इट्ठाऽनिट्ठा विभासिया सुत्ते।
अहिकिच्च दव्वलेसा, ताहि उ साहिजई भावो। वृ-सूत्रे' प्रज्ञापनादौ कृष्णादीनां लेश्यानांयवर्ण-गन्ध-रस-स्पर्शाइष्टा अनिष्टाश्च विभाषिताः' विविधम्-अनेकैरुपमानैर्वर्णिताः । तत्र वर्णवर्णना यथा
कण्हलेसाणंभंते! केरिसिया वन्नेणं पन्नत्ता? से जहानामए जीमूते इवा अंजणे इवा कज्जले Jain Education International
For Private & Personal Use Only
www.jainelibrary.org