________________
४१४
बृहत्कल्प-छेदसूत्रम् -१-१/६ वसती कारणे स्थिता आवश्यकं बहि कुर्वन्ति । अवधानं नाम यदि गृहस्थाः क्षेत्रादिषु गच्छन्तो भणन्ति-'अस्माकमपि गृहेषूपयोगो दातव्यः, अनुपस्थापितशैक्षैर्वा दापयन्ति । यत्र च ‘कति जना वत्स्यथ ?' इति पुष्टे सति कारणतस्तिष्ठभि परिमाणनियमः कृतो यथा “एतावद्भिः स्थातव्यं नाधिकैः ततो यद्यन्ये प्राघूर्णकाःसमाच्छन्तितदातेषामवस्थापनाय भूयोऽप्यनुज्ञापनीयः सागारिकः, यद्यनुजानाति ततः सुन्दरमेव, अथनानुजानाति ततोऽन्यस्यां वसतौ स्थापनीयास्ते प्राघूर्णका इति । भिक्षाचर्यादीनामवशिष्यमाणद्वाराणां विशेषमाह[भा.१६३३] नियताऽनियता भिक्खायरिया पानऽत्र लेवऽलेवाडं।
अंबिलमनंबिलं वा, पडिमा सव्वा वि अविरुद्धा ।। वृ-भिक्षाचर्या 'नियता' कदाचिदाभिग्रहिकी 'अनियता' कदाचिदनाभिग्रहिकी, असंसृष्टासंसृष्टाधन्यतमैषणाभिग्रहवती तद्वर्जिता वेति भावः । पानमन्नं च लेपकृतं वा भवेद् अलेपकृतं वा द्राक्षा-चिञ्चापानकादितक्र-तीमनादिकंच लेपकृतम्, सौवीरादिकंवल्ल-चणकादिकंचालेपृतम्। आचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति । 'प्रतिमाश्च' मासिक्यादिका भद्रादिका वा सर्वा अप्यमीषामविरुद्धा इति।उक्तंसामाचारीद्वारम् । अथ स्थितिद्वारमभिधित्सुरगाथाद्वयमाह[भा.१६३४] खित्ते काल चरित्ते, तित्थे परियाय आगमे वेए।
कप्पे लिंगे लेसा, झाणे गणना अभिगहा य॥ [भा.१६३५] पव्वावम मुंडावण, मनसाऽऽवन्ने उ नथि पच्छित्तं ।
कारण पडिकम्मम्मि उ, भत्तं पंथोय भयणाए। वृ-क्षेत्रे १ काले २ चारित्रे ३ तीर्थे ४प्याये ५आगमे ६ वेदे ७कल्पे ८ लिङ्गे ९ लेश्यायां १० ध्याने ११ गणनायां १२ एतेषु स्थितिर्वक्तव्या, अभिग्रहाश्चामीषामभिघातव्याः १३ । एवं प्रव्राजना १४मुण्डापना १५ मनसाऽऽपने त्वपराधेनास्तिप्रायश्चित्तं १६कारणं १७प्रतिकर्मणि च स्थिति १८ भक्तं पन्थाश्च भजनया १९ इति गाथाद्वयसमुदायार्थः ।।
अवयवार्थं तु प्रतिद्वारं बिभणिषुराह[भा.१६३६] पन्नरसकम्मभूमिसु, खेत्तऽद्धोसप्पिणीइ तिसु होज्जा ।
तिसु दोसुय उस्सप्पे, चउरो पलिभाग साहरणे ॥ वृ-क्षेत्रद्वारे जन्मतः सद्भावतश्च स्थविरकल्पिकाः ‘पञ्चदशस्वपि कर्मभूमिषु' भरतैरावतविदेहपञ्चकलक्षणासु भवन्ति।संहरणतः पञ्चदशानांकर्मभूमीनां त्रिंशतामकर्मभूमीनामन्यतरस्यां भूमौ भवेयुः। अद्धा' कालस्तमङ्गीकृत्यावसर्पिण्यां जन्मतः सद्भावतश्च 'त्रिषु तृतीय-चतुर्थपञ्चमारकेषु भवेयुः । “तिसु दोसु य उस्सप्पे"त्ति उत्सर्पिण्यां जन्मतः त्रिषु' द्वितीय-तृतीयचतुर्थेष्वरकेषु सद्भावतस्तु 'द्वयोः' तृतीय-चतुर्थारकयोर्भवन्ति । नोअवसर्पिण्युत्सर्पिणीकाले जन्मतः सद्भावतश्चदुःषमसुषमाप्रतिभागे भवन्ति, संहरणतस्तु चत्वारोऽपि प्रतिभागा अमीषां विषयतया प्रतिपत्तव्याः, तद्यथा-सुषमसुषमाप्रतिभागःसुषमाप्रतिभागः सुषमदुःषमाप्रतिभागः दुषमसुषमाप्रतिभागश्चेति॥ [भा.१६३७] पढम-बिइएसुपडिवजमाण इयरे उ सव्वचरणेसु।
____ नियमा तित्थे जम्मऽह जहन्ने कोडि उक्कोसे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org