SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-६, [भा. १६२९] ४१३ तेषाम् 'अममत्वा' ममेयमित्यभिष्वङ्गरहिता, 'अपरिकर्मा' उपलेपनादिपरिकर्मवर्जिता, किं सर्वथैव? न इत्याह-प्रमार्जनामेकां मुक्त्वा । कारणे तु सममत्वा सपरिकर्माऽपि भवति । तत्रापरिणतचारित्राणांशैक्षादीनांममेयमित्यभिष्वङ्गविधानात्सममत्वा, सपरिकर्मात्वपरिकाया वसतेरलाभे द्रष्टव्या॥अथ कति जनः स्थण्डिलं चेति द्वारद्वयस्य विशेषमाह[भा.१६३०] तिगमाईया गच्छा, सहस्स बत्तीसई उसभसेने। थंडिल्लं पिय पढम, वयंति सेसे वि आगाढे ॥ वृ-'त्रिकादयः' त्रि-चतुःप्रभृतिपुरु,परिमाणा गच्छा भवेयुः । किमुक्तं भवति ?-एकस्मिन् गच्छे जघन्यतस्त्रयोजना भवन्ति, गच्छस्य साधुसमुदायरूपत्वात्, तस्य च त्रयाणामधस्तादभावादिति।ततऊर्ध्वंयेचतुः-पञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्तेमध्यमपरिमाणतःप्रतिपत्तव्यास्तावद् यावदुष्कृष्टंपरिमाणंनप्राप्नोति। किं पुनस्तत्? इतिचेद्अतआह-“सहस्सबत्तीसईउसभसेने"त्ति द्वात्रिंशत् सहाण्येकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणम्, यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवतऋषभसेनस्येति। तथाण्डिलमपि प्रथमम्' अनापातमसंलोकमेते गच्छवासिनोव्रजन्ति। 'आगाढेतु' भावासन्नतादौ कारणे 'शेषाण्यपि' अनापातमसंलोकप्रभृतीनि स्थण्डिलानिगच्छन्ति। 'कियच्चिरम् ?' इति द्वारं विशेषयन्नाह[भा.१६३१] किच्चिर कालं वसिहिह, न ठंति निक्कारणम्मि इइ पुट्ठा। अन्नं वा मग्गंती, ठविंति साहारणमलंभे ।। वृ-कियच्चिरं कालं यूयमस्यां वसतौ वत्स्यथ ? इति पृष्टाः सन्तो निष्कारणेन तिष्ठन्ति, किन्तु क्षेत्रान्तरं गच्छन्ति । अथ बहिरशिवादीनि कारणानि ततस्तत्रैव क्षेत्रेऽन्यां वसतिं मायन्ति । अथमृग्यामाणाऽप्यन्या न लभ्यते ततः साधारणं वचनंस्थापयन्ति, यथा-निव्या_ते तावद्वयं मासं यावदवतिष्ठामहे व्याघाते तु हीनाधिकम् ।। अथ लाघवार्थं शेषद्वाराणि तुल्यवक्तव्यत्वादतिदिशन्नाह[भा.१६३२] एमेव सेसएसुवि, केवइया वसिहिह त्ति जा नेयं । निक्कारण पडिसेहो, कारण जयणं तु कुव्वंति॥ वृ- “एवमेव' कियच्चिरद्वारवत् ‘शेषेष्वपि' उच्चार-प्रश्रवणादिषु द्वारेषु कियन्तो वत्स्यथेति द्वारं यावन्नेयम् । किम् ? इत्याह-एतेष्वपि निष्कारणे प्रतिषेधः, न वसन्तीति भावः, कारणे तु यतनां कुर्वन्ति । किमुक्तं भवति ?-यदि तिष्ठतामुच्चार-प्रश्रवणयोः परिष्ठापनमकाले फलिहकाभ्यन्तरतो वा नानुजानन्ति ततस्तत्र न तिष्ठन्ति । अथाशिवादिभिः कारणैस्तिष्ठन्ति तत उच्चारं प्रश्रवणंवा मात्रकेषुव्युत्सृज्य बहि परिष्ठापयन्ति । एवमवकाशादिष्वपि द्रष्टव्यम् ।नवरमवकाशे यत्र प्रदेशे उपवेशन-भाजनधावनादि नानुज्ञातं तत्र नोपविशन्ति, कमढकादिषु च भाजनानि धावन्ति । तृणफलकान्यपि यानि नानुज्ञातानि तानि न परिभुञ्जते । संरक्षणता नाम यत्र तिष्ठतामगारिणो भणन्ति-यदि वयं तदानीं द्रक्ष्यामस्ततो रक्षिष्याम इति। संस्थापनता नाम वसतेः संस्कारकरणं तस्यामपिनियुक्ताभणन्ति-वयमकुशलाःसंस्थापनाकर्ममिकर्तव्ये।सप्राभृतिकायापि वसतौ कारणतः स्थिता देशतः सर्वतो वा क्रियमाणायां प्राभृतिकायां स्वकीयमुपकरणं प्रयत्नेन संरक्षन्ति, यावत् प्राभृतिका क्रियते तावदेकस्मिन् पार्वे तिष्ठन्ति । सदीपायां साग्निकायां वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy