Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०९
-
उद्देशक : १, मूलं-६, [भा. १६१२] . [भा.१६१२] असनाइदव्वमाणे, दसपरिमिय एगभत्तमुव्वरइ।
सो एगदिनं कप्पइ, निच्चंतु अज्झोयरो इहरा ।। वृ-अशनम्-ओदनमुद्गादिषआदिग्रहणात्पानक-खादिम-स्वादिमपरिग्रहः, एतेषांद्रव्याणां परिमितानामपरिमितानां वा मान-प्रमाणं ज्ञातव्यम् । यत्र परिमितमशनादि द्रव्यं प्रविशति तत्र दशानां मानुषाणां हेतोरुपस्क्रियमाणे एकस्य-अपरस्य योग्यंभक्तं-भक्तार्थमुद्वरति, सच भक्तार्थ एकस्य साधोः परिपूर्णाहारमात्रारूपं एकदिनंग्रहीतुंकल्पते। 'इतरथा' यदि द्वितीयादिषु दिवसेषु गृह्णन्ति तदा “निच्चंतु"त्तिस साधुभिप्रतिदिवसगृह्यमाणोभक्तार्थोनित्यजेमनमेवतैः श्राद्धैर्गण्यते, ततश्च तदर्थमध्यवपूरकः प्रक्षिप्येत ॥ एवं तात् परिमितमाश्रित्योक्तम् ।
अथापरिमितमधिकृत्याह[भा.१६१३] अपरिमिए आरेण वि, दसण्हमुव्वरइ एगभत्तह्रो ।
वंजण-समिइम-पिढे-वेसणमाईसुय तहेव ॥ वृ-यत्र पुनरपरिमितं राध्यते तत्र दशानां मानुषाणाम् अर्वागपि' नवाष्टादिसङ्ख्याकानामपि हेतो राद्धे एकस्य योग्यो भक्तार्थ उद्वरति, स च दिने दिने कल्पत इति । आह च चूर्णिकृत् अपरिमिए पुन भत्ते दसण्ह आरेण वि एगस्स भत्तट्ठी दिणे दिणे कप्पइ चेव । तथा व्यञ्जनानितीमन-वटिका-भर्जिकादीनि, “समितिम" त्ति समिता-कणिक्का तया निष्पन्नाः समितिमाःमण्डकाः पूपलिका वा, पिष्टम्-उण्डेरकादि सक्तुप्रभृति वा, वेसणं-मरिच-जीरक-हिङ्गुप्रभृतिकं कटुभाण्डम्, आदिग्रहणाद् लवण-शुण्ठयादिपरिग्रहः । एतेषामपि परिमाणं तथैव द्रष्टव्यं यथाऽशनादीनाम्॥एतावता "द्रव्यप्रमाणंगणना-क्षारित-स्फोटितानि" इतिगाथादलं भावितम्। अथ “अद्धा य" त्ति पदं व्याचष्टे[भा.१६१४] सतिकालद्धं नाउं, कुले कुले ताहि तत्थ पविसंति।
_ ओसक्कणाइदोसा, अलंभे वालाइहानी वा ॥ दृ-सत्कालाद्धा-भिक्षायाः सम्बन्धी यो यत्र देशकालरूपोऽद्धा तं ज्ञात्वा कुले कुले तस्मिन् देशकाले तत्र प्रविशन्ति । अथ देशकालेऽतिक्रान्तेऽप्राप्ते वा प्रविशन्ति ततोऽवष्वष्कणादयो दोषाः । अथावप्यष्कमादिकं तानि श्राद्धकान्यशुद्धदानदोषश्रवणव्युत्पन्नमतीनि न कुर्यु ततः प्रायोग्यद्रव्यस्यालाभे बालादीनां हानिर्भवेदिति ।। एवं यत्र क्षेत्रे एक एव गच्छो भवेत् तत्र स्थापनाकुलप्रवेशे सामाचारी भणिता । अथानेकगच्छविषयां तामेवाभिधित्सुराह[भा.१६१५] एगो व होज्ज गच्छो, दोन्नि व तिन्निव ठवणा असंविग्गे।
सोही गिलाणमाई, असईय दवाई एमेव ॥ वृ-विवक्षितक्षेत्रे एको वा गच्छो भवेद् द्वौ वा त्रयो वा, तत्रैकं गच्छमाश्रित्य विधिरुक्तः । अथव्याद्यादीन् गच्छानधिकृत्य विधिरभिधीयते-“ठवणा असंविग्गे"त्तियेषुअसंविग्नाः प्रविशन्ति तेषांश्राद्धकुलानांस्थापना कर्तव्या, न तेषुप्रवेष्टवयम्।अथ प्रविशन्तिततः पञ्चदशोद्गमदोषानापदयन्ते, “सोहि"त्तितद्दोषनिष्पन्न 'शोधि' प्रायश्चित्तम् । यद्वा “सोहि"तिपदं "गिलाणमाई" इत्युत्तरपदेन सह योज्यते, ततोऽयमर्थ-ग्लान-प्राधूर्णकादीनामायासंविग्नभावितेष्वपि कुलेषु 'शोधि' एषणाशुद्धि तया शुद्धं भक्तं गृह्यते न कश्चिद्दोषः । “असईइ दवाइ एमेव"तिअन्यत्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532