Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 357
________________ ३५४ बृहत्कल्प-छेदसूत्रम् - १-१/६ वृ- एकत्वभावनया भाव्यमानया 'कामभोगेषु' शब्दादिषु 'गणे' गच्छे शरीरे वा 'न सजति' न सङ्गं करोति, किन्तु वैराग्यगतः सन् 'स्पृशति' आराधयति 'अनुत्तरं करणं' प्रधानयोगसाधनं जिनकल्पपरिकर्मेति ।। गता एकत्वभावना । अथ बलभावना । तत्र बलं द्विधा- शारीरबलं भावबलं च । तत्र भावबलमाह [भा. १३५३] भावोउ अभिस्संगो, सो उपसत्थो व अप्पसत्थो वा । - गुणओउ रागो, अपसत्थ पसत्थओ चेव ।। वृ- भावो नाम अभिष्वङ्गः । 'स तु' स पुनरभिष्वङ्गो द्विधा -प्रशस्तोऽप्रशस्तश्च । तत्रापत्यकलत्रादिषु स्नेहजनितो यो रागः सोऽप्रशस्तः, यः पुनराचार्योपाध्यायादिषु गुणभहुमानप्रत्ययो रागः स प्रशस्तः । तस्य द्विविधस्यापि भावस्य येन मानसावष्टम्भेनासौ व्युत्सर्गं करोति तद् भावबलं मन्तव्यम् । शारीरमपि बलं शेषजनापेक्षया जिनकल्पार्हस्यातिशायिकमिष्यते ॥ आह तपो - ज्ञानप्रभृतिभिर्भावनाभिर्भावयतः कृशतरं शरीरं भवति ततः कुतोऽस्य शारीरबलं भवति ? इति उच्यते [भा. १३५४ ] कामं तु सरीरबलं, हायइ तव-नाणभावनजुअस्स । देहावच वि सती, जह होइ धिई तहा जयइ ॥ वृ- 'कामम्' अनुमतं 'तुः' अवधारणे अनुमतमेवास्माकं यत् तपो - ज्ञानभानायुक्तस्य शरीरबलं हीयते, परं देहापचयेऽपि सति यथा 'धृतिः' मानसावष्टभलक्षणा निश्चला भवति तथाऽसौ यतते, धृतिबलेन सम्यगात्मानं भावयतीत्यर्थः ।। आह इत्थं धृतिबलेन भावयतः को नाम गुणः स्यात् ? उच्यते [ भा. १३५५ ] कसिणा परीसहचमू, जइ उट्ठिजाहि सोवसग्गा वि । दुद्धर पहकरवेगा, भयजणणी अप्पसत्ताणं ॥ वृ- 'कृत्स्ना' सम्पूर्णा 'परीषहचमूः' मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परीषहाः क्षुधादयस्त एव तेषां वा चमूः सेना सा यदि 'उत्तिष्ठेत' सम्मुखीभूय परिभवनाय प्रगुणीभवेत् 'सोपसर्गाऽपि ' दिव्याद्युपसर्गेकृतसहायकाऽपि, तथा “दुद्धरपहकरवेग " त्ति दुर्द्धरं दुर्वहं पन्थानं सम्यग्दर्शनादिरूपं मोक्षमार्गं करोतीति दुर्द्धरपथकरस्तथाविधो वेगः प्रसरोयस्याः सा दुर्द्धरपथकरवेगा, 'भयजननी' संत्रासकरी 'अल्पसत्त्वानां' कापुरुषाणाम् ॥ [ भा. १३५६ ] धिइधणियबद्धकच्छो, जोहेइ अनाउलो तमव्वहिओ । बलभावणा धीरो, संपुन्नमणोरहो होइ ॥ वृ-तामेवंविधामपि स जिनकल्पं प्रतिपत्तुकामो योधयति । कथम्भूतः ? धृतिरेव धणियम्अत्यर्थं बद्धा कक्षा येन स तथा 'अनुकुलः' औत्सुक्यरहितः 'अव्यथितः ' निष्प्रकम्पमनाः स बलभावनया तां योधयित्वा ‘धीरः' सत्त्वसम्पन्नः सन् सम्पूर्णमनोरथो भवति, परीषहोपसर्गान् पराजित्य स्वप्तिज्ञां पूरयतीत्यर्थः ॥ अपि च [भा. १३५७ ] धिइ-बलपुरस्सराओ, हवंति सव्वा वि भावना एता । तं तु न विजइ सज्झं जं धिइमंतो न साहेइ ॥ वृ- सर्वा अप्येतास्तपःप्रभृतयो भावना धृति-बलपुरस्सरा भवन्ति, नहि धृति - बलमन्तरेण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532