________________
३५४
बृहत्कल्प-छेदसूत्रम् - १-१/६
वृ- एकत्वभावनया भाव्यमानया 'कामभोगेषु' शब्दादिषु 'गणे' गच्छे शरीरे वा 'न सजति' न सङ्गं करोति, किन्तु वैराग्यगतः सन् 'स्पृशति' आराधयति 'अनुत्तरं करणं' प्रधानयोगसाधनं जिनकल्पपरिकर्मेति ।। गता एकत्वभावना । अथ बलभावना । तत्र बलं द्विधा- शारीरबलं भावबलं
च । तत्र भावबलमाह
[भा. १३५३] भावोउ अभिस्संगो, सो उपसत्थो व अप्पसत्थो वा । - गुणओउ रागो, अपसत्थ पसत्थओ चेव ।।
वृ- भावो नाम अभिष्वङ्गः । 'स तु' स पुनरभिष्वङ्गो द्विधा -प्रशस्तोऽप्रशस्तश्च । तत्रापत्यकलत्रादिषु स्नेहजनितो यो रागः सोऽप्रशस्तः, यः पुनराचार्योपाध्यायादिषु गुणभहुमानप्रत्ययो रागः स प्रशस्तः । तस्य द्विविधस्यापि भावस्य येन मानसावष्टम्भेनासौ व्युत्सर्गं करोति तद् भावबलं मन्तव्यम् । शारीरमपि बलं शेषजनापेक्षया जिनकल्पार्हस्यातिशायिकमिष्यते ॥
आह तपो - ज्ञानप्रभृतिभिर्भावनाभिर्भावयतः कृशतरं शरीरं भवति ततः कुतोऽस्य शारीरबलं भवति ? इति उच्यते
[भा. १३५४ ] कामं तु सरीरबलं, हायइ तव-नाणभावनजुअस्स । देहावच वि सती, जह होइ धिई तहा जयइ ॥
वृ- 'कामम्' अनुमतं 'तुः' अवधारणे अनुमतमेवास्माकं यत् तपो - ज्ञानभानायुक्तस्य शरीरबलं हीयते, परं देहापचयेऽपि सति यथा 'धृतिः' मानसावष्टभलक्षणा निश्चला भवति तथाऽसौ यतते, धृतिबलेन सम्यगात्मानं भावयतीत्यर्थः ।। आह इत्थं धृतिबलेन भावयतः को नाम गुणः स्यात् ? उच्यते
[ भा. १३५५ ] कसिणा परीसहचमू, जइ उट्ठिजाहि सोवसग्गा वि । दुद्धर पहकरवेगा, भयजणणी अप्पसत्ताणं ॥
वृ- 'कृत्स्ना' सम्पूर्णा 'परीषहचमूः' मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परीषहाः क्षुधादयस्त एव तेषां वा चमूः सेना सा यदि 'उत्तिष्ठेत' सम्मुखीभूय परिभवनाय प्रगुणीभवेत् 'सोपसर्गाऽपि ' दिव्याद्युपसर्गेकृतसहायकाऽपि, तथा “दुद्धरपहकरवेग " त्ति दुर्द्धरं दुर्वहं पन्थानं सम्यग्दर्शनादिरूपं मोक्षमार्गं करोतीति दुर्द्धरपथकरस्तथाविधो वेगः प्रसरोयस्याः सा दुर्द्धरपथकरवेगा, 'भयजननी' संत्रासकरी 'अल्पसत्त्वानां' कापुरुषाणाम् ॥
[ भा. १३५६ ] धिइधणियबद्धकच्छो, जोहेइ अनाउलो तमव्वहिओ । बलभावणा धीरो, संपुन्नमणोरहो होइ ॥
वृ-तामेवंविधामपि स जिनकल्पं प्रतिपत्तुकामो योधयति । कथम्भूतः ? धृतिरेव धणियम्अत्यर्थं बद्धा कक्षा येन स तथा 'अनुकुलः' औत्सुक्यरहितः 'अव्यथितः ' निष्प्रकम्पमनाः स बलभावनया तां योधयित्वा ‘धीरः' सत्त्वसम्पन्नः सन् सम्पूर्णमनोरथो भवति, परीषहोपसर्गान् पराजित्य स्वप्तिज्ञां पूरयतीत्यर्थः ॥ अपि च
[भा. १३५७ ] धिइ-बलपुरस्सराओ, हवंति सव्वा वि भावना एता । तं तु न विजइ सज्झं जं धिइमंतो न साहेइ ॥
वृ- सर्वा अप्येतास्तपःप्रभृतयो भावना धृति-बलपुरस्सरा भवन्ति, नहि धृति - बलमन्तरेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org