Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 677
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir मास ॥११३॥ ११४॥ ताः सर्वा इत्युत्तरखाक्यादि । रामपार्श्वमुपागम्येति । रणशिरसि हतत्वेन रावणस्याशौचाभावादागतः, अत एवोत्तरदिने राज्याभिषेकोऽयोध्यागमनं चानुष्ठितम् । प्रथमायां रावणसंस्कारः ॥ ११५॥ ११६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटा ख्याने युद्धकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ ११४॥ गम्यतामिति ताः सर्वा विविशुनगरं तदा । प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः। रामपार्श्वमुपागम्य तदा ऽतिष्ठदिनीतवत् ॥११५॥ रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः। हर्ष लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ ११६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ ११४॥ ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः। जग्मुः स्वैस्वैर्विमानस्ते कथयन्तःशुभाः कथाः ॥१॥रावणस्य वधं घोरं राघवस्य पराक्रमम् । सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥२॥ अनुरागं च वीर्य च सौमित्रेर्लक्ष्मणस्य च। [ पतिव्रतात्वं सीताया हनूमति पराक्रमम् । ] कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥३॥राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् । अनुज्ञाय महाभागो मातलि प्रत्यपूजयत् ॥४॥ अथ विभीषणाभिषेक:-ते रावणवधमित्यादि । अत्र क्रियाभेदात्तच्छन्दद्वयम् ॥ १ ॥ शुभाः कथाः कथयन्त इत्यस्यैव विवरणम् -रावणस्य वध AIमित्यादि । मन्त्रितं मन्त्रम् । सौमित्रेरिति तन्मातुःश्शाधनव्यञ्जनाय, अस्य जननी हि भाग्यवतीति ॥२॥३॥ इन्द्रदत्तम् इन्द्रप्रेरितम् । शिखिप्रभम् गम्यतामिति । उक्ता इति शेषः ॥११५॥११६॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायो चतुर्दशोत्तरशततमः सर्गः ॥ ११ ॥ त इति । स्वैः स्वकीयः ॥ १॥ कथाप्रकारमेवाह-रावणस्येत्यादिश्लोकदयेन ॥२॥३॥ अनुज्ञाय रथं, नयेति शेषः ॥ ४-६॥ स-शिखिप्रभम् अग्नितेजसम् । ननु वनपर्वणि " दृष्ट्रा राम तु जानक्या सङ्गतं शक्रसारथिः । उवाच परमप्रीतः सुहृन्मध्य इदं वचः ॥ देवगन्धर्वपक्षाणां मानुषासुरभोगिनाम् । अपनीत त्वया दुःखमिदं सत्यपराक्रम || सदेवासुरगन्धर्वा यक्षराक्षसपनगाः । कथयिम्पन्ति लोकास्त्वां यावद्भमिर्धरिष्यति ॥ इत्येवमुक्त्वाऽनुज्ञाप्य रामं शस्त्रभृतां वरम् । संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा।।" इति सीतासामनानन्तरं रथस्य समात: प्रेषणोत्तरत्र पूर्वमेव तदुक्तेविरोध इति चेत् ? सत्यम्; मारतस्योपरत्वा तदनुसारेण कयोहाप उत्तरत्रात्र कार्यः । मातलिना दृष्टसीतारामसङ्गगेन गमने सर्ववार्ताया न्द्र प्रति प्रतिवक्तुं सुशकत्वगुणलामाच । अथवा सङ्कोचेन कथा कथापितुर्बादरायणस्य न निरः पौर्वापर्यविषय इत्येवमुक्तिः । रावणहननानन्तरं सीतासङ्गत्यन्तरायस्पान्तराऽभावान्मातलिना स्वनाथं प्रति प्रतियोगितुं शक्यत्वाचेति वा समापिरवषेषः॥४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772