Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अयोध्याम् आगतः प्राप्तः अयमयोध्यामार्गः तेन क्षिप्रं तां प्रतिगच्छामीत्यर्थः । परमदुर्गमः अतिदूरत्वादिति भावः ॥ ८ ॥ मार्गस्य परमदुर्गमत्व | मात्रं परिहर्तुमाह-एवमुक्तस्त्विति ॥ ९ ॥ अह्ना त्वामित्यादिसार्धश्लोकत्रयमेकान्वयम् । किं रावणेन चौर्येणापहृतमित्यत्राह - आहृतं निर्जित्येति ॥ १० ॥ ॥ ११ ॥ तर्हि कुबेराय समागताय तत्किमर्थं न दत्तमित्यत्राह त्वदर्थ इति । त्वदर्थे त्वद्गमनार्थे। पालितमिति । न दत्तमित्यर्थः । यद्वा त्वदर्थे त्वत्पूजार्थ एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥ ९ ॥ अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज । पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ॥ १० ॥ मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् । हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ॥ ११ ॥ त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम । तदिदं मेघसङ्काशं विमानमिह तिष्ठति ॥ १२ ॥ तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ १३ ॥ अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥ १४ ॥ वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् । लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५॥ अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि । प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्रणः ॥ १६ ॥ सत्क्रियां विहितां तावदगृहाण त्वं मयोद्यताम् । प्रणयाद्बहुमानाच्च सोह्रदेन च राधव । प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १७ ॥
मेव । मेघसङ्काशमिति वेगे दृष्टान्तः ||१२|| १३ || स्नानाकरणे द्विदस्थितिं याचते-अहं त इत्यादिना । चतुःश्लोक्येकान्वया । गुणान् भक्त्यादि गुणान् ॥ १४ ॥ १५ ॥ सर्वकामैः भूषणादिभिः । विहितां मया कृताम्। उद्यताम्, इतः परं नोद्योगः कार्यः, येन विलम्बः स्यात्, किं तु पूर्वमेव समुयुक्तामित्यः । निर्वन्धदोषं परिहरति प्रणयादिति । प्रणयात् मद्वाक्यमवश्यं श्रोष्यतीति विस्रम्भात् । बहुमानात् त्वत्कृतलालनात् । सौहृदेन णानि ॥ २-११ ॥ तदिदमिति । लङ्कायां वर्तमानस्यापि पुष्पकस्यात्युन्नतत्वेन वहिःस्थितैरपि दृश्यमानत्वादिदमिति प्रत्यक्षनिर्देशः ॥ १२-१६ ॥ विहितां शास्त्र स० [प्रीतियुक्तस्य विहितो ससैन्यः समुद्रणः । सत्क्रियां राम मे तावत् । इति पाठ: । हे राम ! प्रीतियुकस्य पुरुषस्य शास्त्रविहितां मया उद्यतां कार्यतया उयुक्तां सत्क्रियाम् । मे अव्ययन् । मतः गृहाण । ने ममेति वा । न च रामेत्यस्यामन्त्रितत्वेनाविद्यमानवसनापदखेन पदात्परत्वाभावात्कयं म हत्यादेश इति वाच्यम्, सत्क्रियः नितिपद स्परत्वेना देशसम्भवात् ॥ ११ ॥ १७ ॥
For Private And Personal Use Only

Page Navigation
1 ... 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772