Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रुत्वेत्यर्धम् । श्रुत्वा, सुग्रीवसख्यादिकमिति शेषः ॥ ४० ॥४१॥ तत इति । अभ्युच्छ्रयन् अभ्युदाययन्, उन्नम्य स्थापितवन्तः ॥१२॥ पक्ष्वाकेत्यर्धम् । राम इति शेषः।। ४३ ॥ अथाब्रवीदित्यादिश्लोकद्वयमेकान्वयम् । अथ रघुनन्दनः महात्मनः पितुर्भवनमासाद्य प्रविश्य च कौसल्या
श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥४०॥ द्युतिमानेतदाख्याय रामो वानरसंवृतः। हृष्टपुष्टजनाकीर्णा मयोध्यां प्रविवेशह ॥४१॥ ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे ॥४२॥ ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३ ॥ अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् । अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥४४॥ पितुर्भवनमासाद्य प्रविश्य च महात्मनः । कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥४५॥ यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । मुक्तावैडूर्यसङ्कीर्ण सुग्रीवाय निवेदय ॥ ४६॥ तस्य तद्वचनं श्रुत्वा भरतः सत्य विक्रमः । पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥४७॥ ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । गृहीत्वा विविशुःक्षिप्रं शत्रुन्नेन प्रचोदिताः ॥४८॥ उवाच च महातेजाः सुग्रीवं राघवानुजः । अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९॥ सौवर्णान् वानरेन्द्राणां चतुर्णी चतुरो घटान् । ददौ क्षिप्रंस सुग्रीवःसर्वरत्नविभूषितान् ॥५०॥ यथा प्रत्यूषसमये चतुर्णा सागराम्भसाम् । पूर्णेर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥५१॥ एवमुक्ता महात्मानो वानरा वारणोपमाः । उत्पेतुर्गगनं शीघ्र गरुडा इव शीघ्रगाः ॥५२॥ जाम्बवांश्च हनूमांश्च वेगदर्शी
च वानराः। ऋषभश्चैव कलशान जलपूर्णानथानयन् ॥ ५३ ॥ प्रभृतीरभिवाद्य च भरतमब्रवीदिति योजना ॥ १४ ॥४५॥ यच्चेति । साशोकवनिकम् अन्तःपुरोधानसहितम् ॥१६॥ १७॥ तत इति । विविशः परिचारिका इति शेषः ॥ १८-५० ॥ गमानु-उवाचेति । दूतानाज्ञापय प्रभो इति पाठः ॥ १९॥ यथेति । हे वानराः। चतुणों सागराम्भसां चतुभिः अथाब्रवीदित्यादिश्लोकद्वयमेकं वाक्यम् । पितुर्भवनमासाद्य कौसल्याद्या अभिवाद्य च भातमब्रवीदिति पूर्वेण सम्बन्धः ॥ ४४-५० ॥ यथेति ।हे वानराः! चतुणी
For Private And Personal Use Only

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772