Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
आभरणादिवस्तुविशेषान् ॥ ७९ ॥ ८० ॥ विभीषणोऽथेति । अब सम्भावितपरिगणने प्रथमं कीर्तनालब्ध्वा कुलघनमित्यनुवादाच्च आदावेव विभीषणः सम्भावित इति बोध्यम् ॥ ८१-८३ ॥ रामानु०-विभीषणोऽथ मुग्रीव इति । संभावितानुवादसमये विभीषणस्य प्रथमोपादानात् सुग्रीवात्पूर्वमेव विभीषणः संभावित इत्यव
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः । वासोभिर्भूषणैश्चैव यथाई प्रतिपूजिताः ॥ ८० ॥ विभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा । सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८ ॥ यथाई पूजिताः सर्वेः कामै रत्नश्च पुष्कलैः । प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥८२॥ नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः । विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ ८३ ॥ सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ॥ ८४॥ लब्ध्वा कुल धनं राजा लङ्का प्रायाद्विभीषणः ॥ ८५॥ स राज्यमखिलं शासनिहतारिर्महायशाः। राघवः परमोदारः शशास
परया मुदा ॥ ८६ ॥ उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ८७॥ | गम्पते ॥ ८१॥ सुग्रीव इत्यर्धम् । अत्रापि वचनव्यत्ययेन किष्किन्धामभ्युपागमादित्यनुषज्यते ॥८॥ लब्ध्वेत्यर्धम् । कुलधनम् इक्ष्वाकुकुळधनम्, श्रीरङ्ग विमानमिति सम्प्रदायः ॥८५॥ रामानु०-कुलधनम इक्ष्वाकुकुलधनम्, श्रीरसंज्ञक विमानमिति सन्तो वदन्ति । विभीषणकुलक्रमागतं लकाराज्यमिति केचित् ॥ ८५ ॥ स इति । गुणाः एतान् ॥ ७९-८४ ॥ लब्ध्वा कुलधनं राजा लङ्का प्रायाद्विभीषणः इत्यत्र कुलधनशब्देन पूर्वमेव रामाभ्यनुज्ञातं राक्षसकुलधनं लङ्काराज्यं लब्ध्वेति ऋषिणाऽनुवादः क्रियते। केचिनु-लब्ध्वा कुलधनमित्यत्र कुलधनशब्दस्यार्थम् इक्ष्वाकुलदेवतं श्रीरङ्गविमानमिति वर्णयन्ति । तत्रोपपद्यते। कुतः कुलधनमित्यत्र इक्ष्वाकुकुलधनस्याश्रयमाणत्वाद । अवतारसमाप्तिसमये विभीषणाय इक्ष्वाकुकुखदेवतरङ्गविमानस्योत्तरश्रीरामायणे वक्ष्यमाणत्वाच्च । तथाहि विभीषणं प्रति श्रीरामवचनम् “ किश्चान्यद्वकुमिच्छामि राक्षसेन्द्र महावल । आराधय जगन्नाथमिक्ष्वाकुकुलदेवतम् ॥” इति । पाद्मपुराणे चावतारसमाप्तिसमये समागतं विभीषणं प्रति श्रीरामवचनम्-" यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । तावद्रामस्य राज्यस्थः काले मम पदं व्रज ॥इत्युक्त्वा प्रददौ तस्मै स्वविखेपासहिष्णवे। श्रीरङ्गशायिनं स्वाय॑मिक्ष्वाकुकुलदैवतम् । रङ्ग विमानमादाय लवां प्रायाद्विभीषणः ॥" इत्यवतारसमाप्तिकाले श्रीरङ्गविमानदानश्रवणात । कुलधनशब्देन राक्षसकुलधनं लङ्काराज्यमेवोक्तमिनि वेदितव्यमिति ॥ ८५ ॥ स इति । शासन दुष्टनिग्रहं कुर्वन शशास पालयामास, धातूनामनेकार्थत्वात् ॥८६॥ ८॥
• इतः परम्-पूजितत्रैव रामेण किष्किन्धा प्राविशत्युरीम् । रामेण सर्वकामैश्च यथार प्रतिपूजितः ।। इति पाठभेदः केचित् पुस्तकेषु दृश्यते ।
For Private And Personal Use Only

Page Navigation
1 ... 765 766 767 768 769 770 771 772