Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सुखकरम् ॥ ११७-११९ ॥ भक्त्यति । संहितातुल्यत्वात् संहितेति व्यपदेशः॥ १२० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्न पकिरीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशदुत्तरशततमः सर्गः ॥ १३॥ ॥७॥ ॥७॥
एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोःप्रार्धताम् ॥ ११८॥ देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा । रामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ ११९॥ भक्त्या रामस्य ये चेमा संहितामृषिणा कृताम् । लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥१२०॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विशत्सहस्रिकायाँ संहितायां श्रीमद्युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ॥ १३ ॥
(यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । तत् सर्व क्षम्यतां देव नारायण नमोऽस्तु ते ॥) इत्थं श्रीमच्छठारेश्वरणसरसिजद्वन्द्रसेवातिरेकादुद्धृतोदामबोधः कुशिकसुतकुलापाम्पतेरोषधीशः । श्रीमान् गोविन्दराजो वरदगुरुसुतो भावनाचार्यवर्यप्रेम्णैव प्रेर्यमाणो व्यतनुत विपुलां युद्धकाण्डस्य टीकाम् ॥
श्रीमते रामानुजाय नमः॥ भक्त्येति । ये ऋषिणा मुनिना कृता रामस्य संहिता रामायणमित्यर्थः । संहितालक्षणसप्तकाण्डवत्सादृश्यादस्य संहितेति व्यपदेशः । लेखयन्ति, अन्यैरिति शेषः ।। चकाराल्लिखितं च ! ते महात्मानः इह लोके परमेश्वर्यसम्पन्नाः दीर्घायुषस्सर्वैः पूजिता महात्मानो भवन्तीत्यर्थः ॥ १२०॥ (अत्र फलश्रुतिश्लोकाः कतकव्याख्याने नोपलम्यन्ते ।) इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमन्नारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकास्पायर्या युद्धकाण्डव्याख्यायाम पकत्रिंशदुत्तरशततमस्सर्गः ॥ १३१ ॥ महेशतीर्थरचिता रामपादसमर्पिता। युद्धकाण्डस्य टीकेयं समाप्ता तत्वदीपिका ॥
युद्धकाण्डं समाप्तम् ।
For Private And Personal Use Only

Page Navigation
1 ... 769 770 771 772