Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 769
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir मेवानुचिन्तयन्तोऽन्योन्यवैरं प्रजहुरित्यर्थः ॥ ९६- १०२ ॥ अथ रामायणपठने फलं दर्शयति-धन्यमित्यादिसार्धश्लोकमेकं वाक्यम् । आर्षम् ऋषिः वेदः तत्संबन्धि, वेदोपबृंहणमिति यावत् । पुरा अवतारात्पूर्वम् । रामोत्तरतापनीयमूलत्वेन पुरातनमिति वाऽर्थः । यद्वा पुरा सर्वकविभ्यः पूर्वम्, न त्ववतारात् पूर्वमित्यर्थः । " प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ॥” इति रामे प्राप्तराज्ये सति चकारेत्युपक्रमात्, आसन वर्षसहस्राणि तथा पुत्रसहस्रिणः । निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ ९७ ॥ रामो रामो राम इति प्रजानामभवन कथाः । रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ ९८ ॥ नित्यपुष्पा नित्यफलास्तरवः स्कन्ध विस्तृताः । काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ ९९ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः । स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०० ॥ आसन प्रजा धर्मरता रामे शासति नानृताः । सर्वे लक्षण सम्पन्नाः सर्वे धर्मपरायणाः ॥ १०१ ॥ दश वर्षसहस्राणि दश वर्षशतानि च । भ्रातृभिः सहितः श्रीमान रामो राज्यमकारयत् ॥ १०२ ॥ धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । आदिकाव्यमिदं त्वाषै पुरा वाल्मीकिना कृतम् । यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०३ ॥ पुत्रकामस्तु पुत्रान् वै धनकामो धनानि च । लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ १०४ ॥ महीं विजयते राजा रिपुंश्चाप्यधितिष्ठति । राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०५ ॥ 'रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्' इति राज्यप्राप्तिपर्यन्तं भूततया निर्दिश्य ततः परं 'ब्रह्मलोकं प्रयास्यति' इत्येतदन्तं भविष्यत्तया निर्देशात्, 'कोन्वस्मिन् साम्प्रतं लोके' इत्यादौ साम्प्रतशब्दप्रयोगात्, 'रामभूतं जगदभूद्रामे राज्यं प्रशासति' इति सकललोकविदितरामविषयप्रश्नानुपपत्तेः सर्वथा परिहृतत्वात् । इतिहासं पुरातनमित्यस्य आदिकाव्यत्वात्सङ्गतेरन्येषामपि विरोधाभासानां सुपरिहार्यत्वाच्चायमेवार्थः ॥ १०३ ॥ पुत्रकामस्त्वित्यादिसार्धं इत्यनेन ज्येष्ठे भरने वर्तमाने अहं यौवराज्यानई इति लक्ष्मणेन निषेधे कृते रामेण पुनःपुनरनुनयनं कृतमित्यवगम्यते ॥ ८९-२०२ ॥ धन्यमिति । आर्षम् ऋषिर्वेदः तत्सम्बन्धि, वेदोपबृंहितमिति यावत् ॥ १०३ ॥ पुत्रकाम इति । रामाभिषेचनं रामाभिषेकावधिकमित्यर्थः ।। १०४ - १०९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 767 768 769 770 771 772