Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 762
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir बा.रा.भू. ऋषीति । समरुद्गणैः सवायुगणैः । रामस्य मधुरध्वनिः रावणनिरसनाद्यपदानकथनध्वनिः ॥ ३०-३२ ॥ शङ्केति । शङ्खशब्दप्रणादेः शङ्खशब्देः ॥ ३७७ ॥ जनप्रणादैश्चेत्यर्थः ॥ ३३ ॥ ददृशुरिति । ये नगरं प्रविश्य वसिष्ठं पुरस्कृत्य रामाभिषेकममन्त्रयन् ते सुमन्त्रादयः ॥ ३४-३५ ॥ ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः । स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३० ॥ ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१ ॥ नवनागसहस्राणि ययुरास्थाय वानराः । मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ ॥ शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः । प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३ ॥ ददृशुस्ते समायान्तं राघवं सपुरस्सरम् । विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥ ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५ ॥ अमात्यै ब्रह्मणैश्चैव तथा प्रकृतिभिर्वृतः । श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ ॥ स पुरोगामिभिस्तूर्ये स्तालस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥ अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः । नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८॥ सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । वानराणां च तत् कर्म राक्षसानां च तद्वलम् । विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् ॥ ३९ ॥ अमात्यैरिति । प्रकृतिभिः पौरजनैः ॥ ३६ ॥ सेति । तूर्यैः तूर्यवादकैः । स्वस्तिको वाद्यविशेषः । मङ्गलानि प्रव्याहरद्भिः मङ्गलपाठकैः ॥ ३७ ॥ अक्षत मिति । हरिद्रया जातरूपमक्षतम्, वहद्भिरिति शेषः ॥ ३८ ॥ सख्यं चेत्यादिसार्धश्लोकमेकं वाक्यम् । सख्यं जातमिति शेषः । मन्त्रिणां मन्त्रिभ्यः॥ ३९ ॥ स्तूयमानस्य रामस्य मधुरध्वनिः रावणनिरसनादिरामापदानरूपध्वनिरित्यर्थः ॥ ३०-३५ ॥ ते नागराः । वर्धयित्वा, आशीर्भिरिति शेषः ॥ ३५-४३ ।। तिलकम् - शङ्खशब्देति । शङ्खशब्दप्रणादेः शङ्खशब्देर्जनानां हर्षप्रणादेवेत्यर्थः । तदुक्तं पाद्मे-" आगतो रावणद्वेषी कुम्भकर्णखरान्तकः । अतिकायेन्द्र जिच्छेत्ता महर्षिजनरक्षकः ॥ समाप्तदेवता कार्य सीतेशो लक्ष्मणानुजः । सत्यैकनिरतश्शास्तापरदारसहोदरः ॥ सुग्रीवराज्यदो धन्वी रावणानुजराज्पदः । शरणागतसन्त्राता धर्मस्थापनतत्परः रामो दाशरथिः श्रीमान् भगवान् भरताग्रजः । शरयो राम इत्येवं शुश्रुवे काहलध्वनिः ॥” इति ॥ ३३ ॥ For Private And Personal Use Only टी.य.कॉ. म० २३१ ॥ ३७७॥

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772