Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 761
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyanmandir सुग्रीव इति । दिव्यनिमः दिव्यवस्वसदृशैः वः, उपलक्षिताविति शेषः ॥२१॥ २२ ॥ अयोध्यायामिति । गत्वेति शेषः । मन्त्रयामासुः अभि कोपयोगिमङ्गलद्रव्यसंपादनार्थम् एवं कर्तव्यमिति मन्त्रयामासुः ॥ २३ ॥ उकमर्थ विवृणोति-अशोक इति । मन्त्रयन् अमन्वयन् ॥ २४ ॥ सर्व मित्यादिश्लोकद्वयमेकान्वयम् । अईथेति पूजायां बहुवचनम् ॥२५॥२६ ॥ हरीति । हरियुक्तं हरितवर्णयुक्ताश्वयुक्तम् ॥२७॥ जग्राहेत्यादिश्चोकदया। सुग्रीवो हनुमांश्चैव महेन्द्रसदृशाती। स्नातौ दिव्यनिभर्वस्त्रैर्जग्मतुः शुभकुण्डली ॥२१॥ वराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः । सुग्रीवपल्यः सीता च द्रष्टुं नगरमुत्सुकाः॥२२॥ अयोध्यायां तुसचिवा राज्ञो दशरथस्य य । पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत्॥२३॥ अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः । मन्त्रयन रामवृद्ध्यर्थ मृद्धयर्थं नगरस्य च ॥ २४॥ सर्वमेवाभिषेकार्थ जयाहस्य महात्मनः। कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥२५॥ इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् । नगरान्निर्ययुस्तूर्ण रामदर्शनबुद्धयः ॥ २६॥ हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥२७॥ जग्राह भरतो रश्मीन शत्रुघ्रश्छन्न माददे । लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥ २८ ॥ श्वेतं च वालव्यजनं जग्राह पुरतः स्थितः । अपरं • चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥२९॥ मेकान्वयम् । रश्मीन् जग्राह सारथ्यमकरोत् । लक्ष्मण इति । पुरतः स्थितो लक्ष्मणः व्यजनं तालवृन्तकं मूर्ति सम्पर्यवीजयत् ॥२८॥ श्वेतं वालव्यजन च जग्राह । “अहं सर्व करिष्पामि" इति त्वरवा उभयग्रहणम् । अपरं चन्द्रसङ्काशमित्यत्र जग्राहेत्यनुषज्यते ॥२९॥ गाम ॥ १९ ॥ २० ॥ दिव्यनिमः दिव्यकान्तिभिः वः युक्ती जग्मतुः रथस्य राममनुजग्मतुरित्यर्थः ॥ २१॥ २३॥ मन्त्रयामासुः अमिचेकोपयोगिमङ्गलद्रव्यसंपा वनार्थमेव मन्त्रयामाचरित्यर्थः ॥ २३ ॥ अशोक इत्यादिशोकवयमेकं वाक्यम् । अशोकादयो रामपद्धय सङ्गताः मन्त्रयन मन्त्रयन्तः ! महात्मनो रामस्यामिकाथै| यद्यत् तत्सर्व मङ्गलपूर्वकं कर्तुमईथ । पूजायाँ बहुवचनम् । इति ते सर्वे मन्त्रिणः पुरोहितं सन्दिश्य रामदर्शनबुद्धयस्सन्तो नगरान्निर्ययुरिति सम्बन्धः ॥२४-२७॥ जग्राहेति । पुरतः स्थितो लक्ष्मणः व्यजनं तालयन्तं तस्य मूर्ति सम्पर्यवीजयत् । श्वेतं वालव्यजनं च जग्राहेति सम्बन्धः ॥ २८ ॥२९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772