Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 759
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वृक्षः महान् जातः, सुदुरारोहो महास्कन्धप्रशासवान् पुष्पितोऽपि भूत्वा फलानि न प्रदर्शयन् यथा शीयंत अफलो भवति । यथा च यस्य फलस्य। हेतोयेन रोप्यते सः रोपयिता तस्य वृक्षस्य अर्थ तत्फलं नानुभवेत् । मनुजेन्द्र । भक्तान भृत्यान् अस्मान्न शाधि यदि महाबाहो । एषोपमा त्वदर्थ मुक्तेति वेत्तुमईसीति योजना । अत्र वृक्षरामयोरारोपयितृदशरथयोश्च उपमानोपमेयभावः । बीजावापस्थ पुढेष्टयादेश्च महास्कन्धस्य सभ्रातृकत्वस्य च जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः। प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९॥ तूर्यसङ्घातनिर्घोषः काञ्चीनूपुरनिस्वनः। मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥१०॥ यावदावर्तते चक्रं यावती च वसुन्धरा । तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥ ११॥ भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥ प्रशाखवत्त्वस्य सुग्रीवादिमित्रगणस्य च पुष्पाणां कल्याणगुणानां च राज्याकरणस्य फलाभावस्य च साम्यं घोत्यते ॥ ६-८ ॥ भवतस्तु राज्यपरिपालने महती शक्तिरित्याह-जगदिति ॥ ९॥ सर्वभोगाईस्त्वमेव भोगान् भुट्वेत्याह-तूर्येति । काञ्चीनूपुरनिस्वनरित्यनेन प्रबोधकललित नृत्यं गम्यते ॥ १०॥ मध्ये स्वस्य राज्याशानुदमं द्योतयन्नाह-यावदिति । चकं ज्योतिश्चक्रमिति यावत् । यावती यावत्कालस्थितिः, तावत् तावत्कालम्, सर्वस्य राज्यस्य स्वामित्वमनुवर्तय । स्वामित्वानुवर्तनं हि पालनमेव ॥ ११॥ भरतस्येति । निषसादेति, भरत इति शेषः ॥ १२ ॥ शाअन्तनिवेशने आरोपितः उप्तः वृक्षो महास्कन्धपवालवान सुदुरारोहो जातः सन पुष्पितो भूत्वा फलानि न प्रदर्शयन शीर्येत शीर्येचेन यस्य हेतोः यस्य फलस्य हेतोः येन रोप्यते स रोपग्रिता तस्य वृक्षस्यार्य फलं यथा यथावत्रानुभवेत एवं हि यस्मात्कारणात हे मनुजेन्द्र ! भक्तान भृत्यान् अस्मान्न शाधि यदि तदा दश रथो वृक्षारोपकतुल्यः, दशरथस्य प्रजापरिपालनरूपफलाप्रदर्शनादफलवृक्षतुल्यस्त्वमित्यर्थः । एतदुक्तं भवति-केनचित्कुटुम्बिना कुटुम्बार्थ समारोपितो वृक्षः पुष्पितो भूत्वा यदि न फलेत तदा तस्य कुटुम्बस्य तवृक्षान्न प्रयोजनं भवेत् । एवं पित्रा जनितस्सर्वगुणसम्पनो यदि त्वं लोकं न रक्षेः तदा लोकस्य त्वया न प्रयोजनमिति ॥ ६-८ ॥ यदेवमत आह-जगदद्येत्यादि ॥९॥ १० ॥ यावदिति । चक्रं ज्योतिश्चक्रं यावदावर्तते परिश्चमति । अनेन कालावधिरुच्यते । यावती मायावत्कालस्थितिः, यावत्तिष्ठतीत्यर्थः ॥ ११-१५ ॥ क For Private And Personal Use Only

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772