Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तत इति । दिशमागम्य दिशमुद्दिश्य ॥६१ ॥ पुरोहितस्येति । आत्मसमस्य स्वानुरुपस्य, गासने तेन सहैवोपविवेश, पृथगासने युगपदेवोप विविशतुरित्यर्थः ।। ६२ ।। इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने काण्डव्याख्याने त्रिंशदुत्तरशततमः सर्गः ॥ १३०॥
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् । उत्तर दिशमागम्य जगाम बालयम् ॥ ६ ॥ पुरोहितस्यात्मसमस्य राघवो बृहस्पतेःशक इवामराधिपः । निपीडय पादौ पृथगासने शुभे सहव तेनोपविवेश राघवः ॥ ६२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे त्रिंशदुत्तरशततमः सर्गः ॥ १३० ॥
शिरस्यञ्जलिमाशय कैकेय्यानन्दवर्धनः। बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥१॥
पूजितान, माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥२॥ एवं पुष्पकं धनदाय प्रेषयित्वा वसिष्ठेन च समागम्य भरतानुज्ञां विना नायोध्या प्रवेष्टव्यति तात्पर्येण नन्दिग्राम एवासनोपविष्टे रामे निविष्टेषु च पौर वर्गेषु सन्निहितासु च मातृषु तादात्विकसूक्ष्मेङ्गितदर्शननिपुणो भरतः स्वहृदयमग्रजाय निवेदयति-शिरस्यनलिमित्यादिना । शिरस्यालिमाधाये त्यनेन पूर्वकृता प्रपत्तिः स्मार्यते । अनन्यगतिकत्वसूचिका मुद्रा ह्यञ्जलिः । कैकेय्यानन्दवर्धन इत्यनेन भरतवचने कैकेयीसन्तोषो मुखप्रसादादिनाऽव गम्यत इति द्योत्यते ॥ १॥ रामानु०-पूर्वसमें 'कुशलं पर्यपृच्छस्ते प्रहृष्टा भरतं तदा' इत्यस्यानन्तरवर्ति 'अथाब्रवीत्त्वमस्माकम्' इति च श्लोकद्वयमत्र सांदी के चित्कोशेष प्रमादा लिखितम् । सर्गादिस्तु शिरस्यञ्जलिमाधायेति ॥ १॥ रामस्य राज्यपरिग्रहे अपरिहार्य हेतुं दर्शयति-पूजितेति । मामिका मत्संबन्धिनी माता पूजिता, राज्यपरि त्यागपूर्वकवनवासाङ्गीकारेण त्वया तोषिता। अनन्तरमिदं राज्यम् , मम मयि, चित्रकूटे दत्तम् । तद्राज्यं त्वं यथा येन प्रकारेण ममाददाः तेन । तद्वैपरीत्यजशोकेन च ॥ ५७-६१ ॥ पुरोहितस्येति । आत्मसमस्य स्वानुरूपस्य पृथगासने तेन वसिष्ठेन सहेवोपविवेश, पृथगासने युगपदेवोपविविशतु रित्यर्थः ॥ ६२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्ठ्याख्यायां त्रिंशदुत्तरशततमः सर्गः॥१३०॥
॥ पूजिता मामिका माता पूजिता राज्यपरित्यागपूर्वकवनवासाङ्गीकारेण त्वया तोषिता । अनन्तरं मम इदं राज्यं चित्रकूटे दत्तम, तद्राज्यं त्वं यथा येन
For Private And Personal Use Only

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772