Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 755
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमस्कारो रामसन्निधौ भरतेन प्रतिषेधित इति चाडुः। वैदेहीं चाभ्यवादयत् । चकारो रामनमस्कारं समुच्चिनोति । 'न सङ्घये भरतानुजः' इत्युक्तेः । " सीतामादाय गच्छ त्वमग्रतो भरताग्रज " इत्यत्र बहुवीहिरित्युक्तम् । न च वैपरीत्यं शङ्कयम् । पुष्ये जातस्तु भरतः, सार्पे जातौ तु सौमित्री इति जन्मकमोक्तेः । पायसप्रदाने विवाहे च प्राथम्यं तत्र परिहृतम् । लक्ष्मणासादनानन्तरं सीतानमस्काराभिधानात् सीता तारादिभिः सह रामसमीप ते कृत्वा मानुषं रूपं वानराः कामरूपिणः । कुशलं पर्यष्टच्छंस्ते प्रहृष्टा भरतं तदा ॥ ४५ ॥ अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् । परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥ ४६ ॥ त्वमस्माकं चतुर्णी तु भ्राता सुग्रीव पञ्चमः । सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम् ॥ ४७ ॥ विभीषणं च भरतः सान्त्ववाक्यमथाब्रवीत् । दिष्टया त्वया सहायेन कृतं कर्म सुदुष्करम् ॥ ४८॥ शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् । सीतायाश्चरणौ पश्चाद्विनयादभ्य वादयत् ॥ ४९ ॥ रामो मातरमासाद्य विषण्णां शोककर्शिताम्। जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ॥५०॥ | एव किञ्चिदन्यत्र स्थितेत्यवगम्यते ॥ ४२-४४ ॥ रामानु० -लक्ष्मणासादनानन्तरं देवीनमस्काराभिधानाद, “अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् । गन्तुमिच्छे सहा योध्यां राजधानीं त्वया सह ॥ " इति प्रार्थितप्रकारेण तारादिभिः परिवृता सती रामसमीप एव किञ्चिदन्यत्र स्थितेत्यवगम्यते ॥ ४२ ॥ त इति । मानुषं रूपं कृत्वा, स्थिता इति शेषः ॥ ४५-४९ ॥ राम इति । मनो मातुः प्रसादयन्निति पूर्व त्वद्वाक्यं नाश्रौषमिति त्वया मनस्तापो न कार्य इत्येवं प्रसन्नामकरोदित्यर्थः॥५०॥ मालिङ्गनेन सम्भाग्य वैदेहीं चाभ्यवादयत्, “ 'अन्वेद्युः पाञ्चजन्यात्मा कैकेय्यां भरतोऽभवत् । तदन्येद्युस्तु मित्रायामनन्तात्मा च लक्ष्मणः । सुदर्शनात्मा शत्रुनो द्वौ जाती युगपत् भिये ॥ " इति पार्वतीं प्रति शिवेनोक्तपाद्मपुराणवचनमकारेण रामायणोक्तप्रकारेण च भरतस्य ज्येष्ठत्वादेवं व्यारूपानं कृतम्। वैदेहीं चेति चकारेण रामनमस्कारं समवधत्तेति । परे यद्यपि लक्ष्मणो भरतात्कनिष्ठो वयसा स्पष्टं चेदं जन्मप्रकरणे । तथापि ज्येष्ठानुवर्तनेन स्वापेक्षयाऽधिकगुणत्वेन स्वव्यवहारेण ज्येष्ठानुवृत्तिरेवं कर्तव्येति भरतं प्रत्युपदेशदानेन च गुरुत्वबुद्धया तस्य नतिरुचितेव । किव कौसल्यायै प्रथमं दत्तपायसशिजत्वाद्वक्ष्मणस्य ज्येष्ठत्वम् । तनो हि कैकेय्यै पायसार्धदानम् । तदंशजश्व शत्रुघ्न इति स एव भरतात्कनिष्ठः, अत एव वेदेहीं चेति चकारस्स्वरसतस्सङ्गच्छते, अत एव च शत्रुघ्रकृतो लक्ष्मणनमस्कार उपपद्यते । तयोर्युगपदुत्पन्नत्वादित्याहुः ॥ ४२-५० ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772