Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 754
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥३७३ ॥ www.kobatirth.org वाहनमेतद्विमानम्, प्रसादेन धनदस्य ब्रह्मप्रसादेन धनदस्य लब्धमित्यर्थः । “परेण तपसा लेभे यत्कुबेरः पितामहात्" इति सुन्दरकाण्डोक्तेः ॥ ३२ ॥ एतस्मिन्निति । आसत इति शेषः ॥ ३३-३५ ॥ प्राञ्जलिरिति । यथार्थेन स्वागतेन, चतुर्दशे वर्षे पूर्णे अवश्यमागमिष्यामीति प्रतिज्ञानुसारिणा स्वागमनेनेत्यर्थः । अपूजयत् अश्लाघयत् ॥ ३६-३९ ॥ रामानु० - मेरुस्वमिव भास्करमित्यस्यानन्तरं ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् । हंसयुक्तं महावेगं निष्पपात एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ । सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ॥ ३३ ॥ ततो हर्षमुद्भूतो निस्वनो दिवमस्पृशत् । स्त्रीवालयुववृद्धानां रामोऽयमिति कीर्तिते ॥ ३४ ॥ रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः । ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ ३५ ॥ प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः । स्वागतेन यथार्थेन ततो राममपूजयत् ॥ ३६ ॥ मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः । रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ॥ ३७ ॥ ततो विमानाग्रगतं भरतो भ्रातरं तदा । ववन्दे प्रयतो रामं मेरुस्थमिव भास्करम् ॥ ३८ ॥ ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् । हंसयुक्तं महावेगं निष्पपात महीतले ॥ ३९ ॥ आरोपितो विमानं तद्भरतः सत्यविक्रमः । राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ४० ॥ तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् । अङ्के भरतमारोप्य मुदितः परिषस्वजे ॥ ४१ ॥ ततो लक्ष्मणमासाद्य वैदेहीं चाभ्यवादयत् । अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् ॥ ४२ ॥ सुग्रीवं केकयीपुत्रो जाम्बवन्तं तथाऽङ्गदम् । मैन्दं च द्विविदं नीलमृषभं परिषस्वजे ॥४३॥ सुषेणं च नलं चैव गवाक्षं गन्धमादनम् । शरभं पनसं चैव भरतः परिषस्वजे ॥ ४४ ॥ Acharya Shri Kailassagarsuri Gyanmandir महीतले । इति पाठः । अर्थ "लोकः केषुचित्कोशेषु लेखकप्रमादात्पतितः ॥ ३९ ॥ आरोपित इति । अत्र भरतस्य विमानारोपणं सर्वेषां प्रदर्शनार्थमिति बोध्यम् ॥ ४० ॥ ४१ ॥ तत इति । लक्ष्मणमासाद्य कृतनमस्कारं उक्ष्मणमालिङ्गनेन सम्भाव्य । इदं च लक्ष्मणस्य कनिष्ठत्वात् । लक्ष्मणेन चिकीर्षितो सुन्दरकाण्डेऽभिहितत्वात् ॥ ३२ ॥ राक्षसश्च विभीषणः इत्यनन्तरम् आसत इति शेषः ॥ ३३-४१ ॥ ततो लक्ष्मणमिति । लक्ष्मणमासाद्य कृतनमस्कारं लक्ष्मण For Private And Personal Use Only टी.यु.का. स० [१३० ॥ ३७३ ॥

Loading...

Page Navigation
1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772