Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भ.
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तत इति । प्रमुखे अग्रे ॥ १४ ॥ कैकेय्येति । अत्र भरतेनोपेक्षयाऽनाहूतत्वात् पञ्चान्निर्गत्य कैकेय्या नन्दिग्रामप्राप्तिकाले साहित्यमुच्यते ॥ १५ ॥ कृत्स्नमित्यर्थम् । अत्र नगरशब्देन तत्रत्यजना लक्ष्यन्ते ॥ १६ ॥ सञ्चचाल कम्पितेव ॥ १७ ॥ अयोक्तपरिवारैः सह भरतस्य नन्दिग्रामान्निर्गमं दर्शयति-द्विजातिमुख्यैरित्यादिभिः सार्वैश्वतुर्भिः श्लोकः । ततो महात्मा भरतः सर्वैर्वृतः प्रत्युद्ययाविति वाक्यार्थः । सनैगमैः सवणिग्भिः ।
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः । कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥ १४ ॥ कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥ १५ ॥ कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ॥ १६ ॥ अश्वानां खुरशब्देन रथनेमिस्वनेन च । शङ्खदुन्दुभिनादेन सञ्चचालेव मेदिनी ॥ १७ ॥ द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः । माल्यमोदकहस्तेश्च मन्त्रिभिर्भरतो वृतः ॥ १८ ॥ शङ्खभेरीनिनादैश्च वन्दिभिश्राभिवन्दितः । आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ॥ १९ ॥ पाण्डुरं छत्रमादाय शुक्कुमाल्योपशोभितम् । शुक्ले च वालव्यजने राजा हेम भूषिते ॥ २० ॥ उपवासकृशो दीनश्वीरकृष्णाजिनाम्बरः । भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः । प्रत्युद्यर्यो ततो रामं महात्मा सचिवैः सह ॥ २१ ॥ समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥२२॥ कच्चिन्न खलु कापेयी सेव्यते चलचित्तता । नहि पश्यामि काकुत्स्थं राममायै परन्तपम् । कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः ॥ २३ ॥ "वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् " इत्यमरः । मन्त्रिभिः वसिष्ठादिभिः । सचिवैः सुमन्त्रादिभिः । आर्यपादौ रामपादुके हेमभूषिते हेमदण्डभूषिते । तत्पूर्वं श्रवणादि दर्षमागतः, श्रवणात्पूर्वे तु नास्य हर्षोऽभूदित्यर्थः ॥ १८-२१ ॥ समीक्ष्येत्यर्धम् । समीक्ष्य समन्ताद्रामागमनं निरीक्ष्य ॥ २२ ॥ कञ्चिदित्यादिसार्धश्लोक एकान्वयः । कञ्चिदिति प्रश्ने । सेव्यते, त्वयेति शेषः । तत्र हेतुमाह-न हीति । रामस्य दूरागमनेऽपि नासीरचारिणः द्विजातिमुख्यैरिति । सनैगमैः सवणिग्भिः । “वैदेहकस्सार्थवाहो नैगमो वाणिजो वणिक्" इत्यमरः ॥ १८ ॥ आर्यपादौ श्रीरामस्य पादुके ॥ १९ ॥ २०॥ भ्रातुरिति । तत्पूर्व हर्षमागतः इत्यनेन श्रीरामागमनश्रवणात्पूर्व हर्षो नास्तीत्यवगम्यते ॥ २१-२२ ॥ कापेयी कपिसम्बन्धिनी चलचित्तता न सेव्यते कश्चित् नाप्यते कश्चित,
For Private And Personal Use Only
टी.यु.कॉ. स. १३०
॥ ३७२ ॥

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772