Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 751
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir अन्ये पुरुषाः हिमवच्छीतेन वारिणा सिञ्चन्तु । ततः सेचनानन्तरम्, लाजादिभिः किरन्तु । रथ्याः समुच्छ्तिपताकाः, कुर्वन्विति शेषः । सूर्यस्योदयनं प्रति सूर्यस्योदयमारभ्य । यावत्सूर्योदयमिति वा । सजः मालिकाः तासां दामभिः पतिभिः, मुक्तपुष्पैः असूत्रबद्धपद्मकुवलयादिभिश्च वेश्मानि शोभयन्तु । सुगन्धैः पञ्चवर्णकैः पञ्चविधवर्णद्रव्यचूर्णैः, राजमार्ग किरन्तु राजमार्गे वर्णद्रव्यचूर्णेः नानाविधलतापद्मादिचित्ररेखाः कुर्वन्त्वित्यर्थः॥४-८॥ समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे। शोभयन्तु च वेश्मानि मूर्यस्योदयनं प्रति ॥७॥ सम्दामभिर्मुक्तपुष्पैः सुगन्धैःपञ्चवर्णकैः। राजमार्गमसम्बाधं किरन्तु शतशो नराः॥८॥राजदारास्तथाऽमात्याः सैन्याः सेनागणाङ्गनाः। ब्राह्मणाश्चसराजन्याःश्रेणीमुख्यास्तथा गणाः ॥ ९॥ धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः । अशोको मन्त्रालश्च सुमन्त्रश्चापि निर्ययुः ॥ १०॥ मत्तै गसहस्त्रैश्च शातकुम्भविभूषितैः ॥ ११॥ अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः । निर्ययुस्तुरगाकान्तै रथैश्च सुमहारथाः॥१२॥शक्त्यृष्टिप्रासहस्तानां सध्वजानां पताकि नाम् । तुरगाणां सहस्रैश्च मुख्यमुख्यनरान्वितैः । पदातीनां सहस्रैश्च वीराः परिवृता ययुः ॥ १३ ॥ | रामानु-विष्टीः भृति विना कर्मकरान् । सग्दामभिः पुष्पमालापतिभिः, वेश्मानि शोभयन्तु । सुगन्धैः पञ्चवर्णकः मुक्तः पुष्पैश्च राजमार्ग किरन्त्विति संबन्धः ॥ ४-८ ॥ अथ परेयुः प्रातः रामभक्त्यतिशयेन सर्वेषां निर्गमनं दर्शयति-राजदारा इत्यादिना । श्रेणीमुख्याः श्रेणीमुखाः। तथा गणाः, श्रेणी श्रेणय इति यावत् । अत्र श्लोके निर्ययुरिति वक्ष्यमाणमनुषज्यते ॥ ९॥ अमात्यान्विशिष्य दर्शयति-धृष्टिरित्यादिना । सार्घश्योक एकान्वयः । अत्र धृष्टयादयो गजारूढा । ययुरित्यर्थः ॥ १० ॥११॥ अपर इति । अपरे राजान्तरङ्गाः पुरुषाः करेणुभिनिर्ययुः ॥ १२ ॥ शक्तीत्यादिसाशोक एकान्वयः । उक्तविशेषणानां । तुरगाणां सहस्रः पदातीनां सहस्रेश्व परिव्रता पीरा ययुः ॥१३॥ रामानु०-निर्ययुस्तुरगाकान्त स्यैश्च सुमहारथाः । इत्यस्यानन्तरम्-शतगृष्टिपासहस्तानां सध्वजानां पताकि नाम् । तुरगागां सहस्त्रैश्च मुरुपर्मुरुपनरान्वितैः । पदातीनां सहस्रश्च वीराः परिवृता ययुः । ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः। कौसल्या प्रमुख कृत्वा सुमित्रां चापि निर्ययुः । कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् । कृत्वं तु नगरं तत्तु नन्दिग्राममुपागमत् ॥ इति पाठक्रमः । व्यत्ययस्व लेखकामादकृतः ॥१५॥ राजदारा: मातरः । सैन्याः राजभवनातिमन्तोऽम्पन्नराः । सेनागणा आटविकान्तसेनाभेदास्तथाऽङ्गनागणदाणी नानाजानीयसः॥९-१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772