Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsuri Gyanmandir
स प्रसिद्धः महामणिः अभिज्ञानं दत्तम् ॥ ४९ ॥रामानु०-तयेति । मे मया । स महामणिः। रामदत्ताभिज्ञानस्याङ्कलीयकरूपत्वेऽपि तद्युक्तमाणिप्राधान्यान्मणिशब्दप्रयोगः ॥४९॥ अभिज्ञानमित्यर्धम् ॥५०॥ मया चेति । क्रियाभेदान्मयाशब्दद्वयं प्रयुक्तम् ॥५१॥ श्रुत्वेति । जीवितमाशशंसे ततः पूर्व जीविते निराशः स्थित इति व्यक्तम् । जीवितान्तं प्राप्तः, आतुरः अमृतं पीत्वा यथा जीवितमाशास्ते तथेत्यर्थः ॥५२॥ उद्योजयिष्यन्निति । उद्योगमुद्योजयिष्यन् उद्योग ।
अभिज्ञानं मणि लब्ध्वा चरितार्थोऽहमागतः ॥ ५० ॥ मया च पुनरागम्य रामस्याक्किष्टकर्मणः। अभिज्ञानं मया दत्तमर्चिष्मान स महामणिः॥५१॥ श्रुत्वा तु मैथिली हृष्टस्त्वाशशंसे च जीवितम् । जीवितान्तमनुप्राप्तः पीत्वा ऽमृतमिवातुरः ॥ ५२॥ उद्योजयिष्यन्नुद्योग दर्तो कामं वधे मनः। जिघांसुरिव लोकान्ते सर्वाल्लोकान विभावसुः ॥५३॥ ततः समुद्रमासाद्यनलं सेतुमकारयत् । अतरत् कपिवीराणां वाहिनी तेन सेतुना ॥५४॥ प्रहस्तमवधी नीलः कुम्भकर्ण तु राघवः । लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥५५॥ स शक्रेण समागम्य यमेन वरुणेन च। महेश्वरस्वयम्भूभ्यां तथा दशरथेन च ॥५६॥ तैश्च दत्तवरः श्रीमानृषिभिश्च समागतः। सुरर्षिभिश्च काकुत्स्थो वरॉल्लेभे परन्तपः ॥५७ ॥ स तु दत्तवरःप्रीत्या वानरैश्च समागतः। पुष्पकेण विमानेन किष्किन्धामभ्युपागमत
॥५८॥ तं गङ्गां पुनरासाद्य वसन्तं मुनिसन्निधौ । अविनं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ५९॥ कुर्वन् । ओदनपाकं पचतीतिवत् । विभावसुः अग्निः ॥ ५३ ॥ तत इति । नलं सेतुमकारयत् नलेन सेतुमकारयत् ॥ ५४-५८ ॥ तमिति । पुनर्गङ्गामासाद्य मुनिसन्निधौ भरद्वाजसमीपे, अद्य वसन्तं तम् अविघ्नं यथा भवति तथा श्वः पुष्ययोगेन द्रष्टुमईमि, पुष्ययोगलाभार्थम् नीतिशास्त्रोक्तमार्गेण । महामणिः, रामदत्ताभिज्ञानस्याङ्गुलीयकत्वेऽपि तत्र खचितमणिप्राधान्यान्मणिशब्दप्रयोगः ॥ ४९-५२॥ उद्योजयिष्यनिति । उपुज्यते जयो नेनेत्युद्योगो बलं तदुद्योजयिष्यन् प्रोत्साइयिष्यन् ॥ ५३-५९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772