Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 741
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अथेति । अथ उद्योगानन्तरम् । वेगेन जिघृक्षन इवेत्यन्वयः ॥२०॥ लवयित्वेत्यादिश्लोकद्वयमेकान्वयम् । पितृपथं स्वपितृपथम्, वायुमार्गमित्यर्थः। भुजगेन्द्रालयमिति गङ्गायमुनासङ्गमविशेषणम् ॥ २०-२३॥ पञ्चमी पञ्चमीसम्बन्धिनीम्, अद्य रजनीम् एता रजनीम् उषित्वा । निर्गतमिति शेषः। अथोत्पपात वेगेन हनुमान मारुतात्मजः । गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ॥ २०॥ लकयित्वा पितृपथं भुजगेन्द्रालयं शुभम् । गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च। शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ॥२१॥ स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ॥२२॥ सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः। सहसीतः ससौमित्रिः सत्वांकुशलमब्रवीत् ॥२३॥ पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः। भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ॥ २४॥ एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरूहः । उत्पपात महावेगो वेगवानविचारयन् ॥ २५॥ सोऽपश्य द्रामतीर्थं च नदी वालुकिनी तथा। गोमती तां च सोऽपश्यद्भीमं सालवनं तथा। प्रजाश्च बहुसाहस्राः स्फीतान् जन पदानपि ॥२६॥ स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः । आससाद दुमान् फुल्लान् नन्दिग्रामसमीपगान् ॥२७॥ स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलंकृतान् । सुराधिपस्योपवने यथा चैत्ररथे दुमान् ॥ २८॥ भरद्वाजाभ्यनुज्ञातम् । प्रातरिति शेषः । अद्यैव अचिरेणेव ॥२४॥ सम्प्रहृष्टतनूरुहः। सकललोकानन्दकारिरामप्रत्यागमनं मया श्रावयितव्यं लब्धमित्य स्मादेतोरितिभावः । महापेगः महावेगस्वभावः । वेगवान् तादात्विकवेगवान् । अविचारयन मार्गस्थवनगिरिनदीसौन्दर्यादिकमगणयन्निति भावः ॥२५॥ माऽपश्यदित्यादिसार्घश्लोकमेकं वाक्यम् । रामतीर्थ परशुरामतीर्थम् । तां प्रसिद्धाम् । प्रजाः कोसलजनपदस्था॥२६॥ स गत्वेत्यादिश्लोकद्वयमेकान्वयम् ।। लयित्वेत्यादि । पितृपथं वायुपथम् । विहगेन्द्रालयं पक्षीन्द्राणां सञ्चारस्थानम् । विहगेन्द्रालय शुभम इति पाठः । मध्यं मार्गमध्यस्थितम्, गङ्गायमुनयोस्सन्नि पातं प्रयागम् ॥२१-२३॥ पक्षमीमिति । पञ्चमी पश्चमीसम्बन्धिनीम् । अद्यरजनीम् पता रजनीम उषित्वा प्रातः भरद्वाजाभ्यनुज्ञातं समायान्तं रामम् अद्येव अचिरेणेव द्रक्ष्यसीत्यर्थः ॥ २४ ॥ संप्रष्टतनूरुहः सकलजगदानन्दकारिरघुनाथप्रत्यागमनं मया श्रावयितम्पमित्यस्माद्धेतोरिति भावः । अविचारयन, अध्व श्रिममिति शेषः ॥ २५ ॥२६॥ स गत्वेत्यादिश्लोकद्वयमेकं वाक्यम् । सुराधिपस्योपबने नन्दनवने । चैत्ररथे कुबेरोद्याने ॥ २७-३३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772