Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 744
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir चा.रा.भ.Iोकत्रयमेकान्वयम् । परिगृहीतमनुष्यदेहेऽपि हनुमति तेजोविशेषात् संशयः। अनुक्रोशात् दयया, प्रियं अवतस्ते, प्रियाख्यानस्य प्रियवचनस्य,गटी.यू. ॥३६८पारितोषिकत्वेन गवादिकं ददामि । भार्याः भरणाः । कन्याः अनूढाः स्त्रियः ॥ १३-१५॥ निशम्येति । रामदिवक्षया उपलक्षितो भरतःशस. १२९ अद्भुता उपमा यस्य तत् अद्भुतोपमम्, निरुपममित्यर्थः । तद्रामागमनम्, कपिप्रवीरस्य कपिप्रवराव, निशम्य । नटस्य शृणातीतिवत्यष्ठी . गवां शतसहस्रं च ग्रामाणां च शतं परम् । सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश । ४४ ॥ हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः । सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥४५॥ निशम्य रामागमन नृपात्मजः कपिप्रवीरस्य तदद्धतोपमम् । प्रहर्षितो रामदिदृक्षयाऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः ॥४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः॥ १२८॥ बहूनि नाम वर्षाणि गतस्य सुमहद्धनम् । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥१॥ कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि ॥२॥ राघवस्य हरीणां च कथमासीत् समागमः। कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥ ३ ॥ प्रहर्षितोऽभवत् ॥ ४६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाविंशत्युत्तरशततमः सर्गः ॥१२८॥ बहूनीत्यादिश्लोकद्वयमेकान्वयम् । बहूनि वर्षाणि वनं गतस्येति संबन्धः । वर्षशतादपीत्यत्रेतिकरणं द्रष्टव्यम् । वर्षशतात्परमिति शेषः ॥१॥२॥ राघवस्येति । अब वानरसमागमप्रश्नेन पूर्व भरतः सामान्यतो वानरसेनासत्राई श्रुतवानिति गम्यते । किमाश्रित्य किं प्रयोजनमवलम्ब्य ॥३॥ Iuw-v॥इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां युद्धकाण्डप्यास्यायाम् अष्टाविंशत्युत्तरशततमः सर्गः ॥ १८ ॥ बहूनीत्यादि लोकद्वयमेकं वाक्यम् । बहूनि वर्षाणि वनं गतस्य मम नाथस्य प्रीतिकरं कीर्तनं यतः शृणोमि अतः जीवन्तं नरं वर्षशतादपि आनन्दः एतीत्येवं रूण लौकिकी गाथा जनवार्ता मे मम कल्याणी सत्यार्था प्रतिभातोति सम्बन्धः । ॥२ ॥ राघवस्य हरीणां च कथमासीसमागम इत्यनेन देवो वा मानुषो वेति । ॥३६८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772