Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 743
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हेत्वन्तरमाह धर्मवत्सलम्, धर्मार्थतया स्वात्मत्यागे पितृसदृशमित्यर्थः । चतुर्दशे वर्षे पूर्णेऽपि रामागमनादर्शनात् प्राणत्यागे व्यवसितं भरतमालोकयतां | पौराणां खेदातिशयोऽनेन श्लोकेन सूच्यते ॥३४॥ तमिति । देहवन्तमपरं धर्ममिव स्थितम्। द्वितीय इवशब्दो वाक्यालङ्कारे ||३५ ॥ ३६ ॥ प्रियमिति । सङ्गतः, भविष्यसीति शेषः । अत्रापरिचितत्वात् भरतं हनुमान् नावन्दत । यद्वा प्राञ्जलिरिति पदं वन्दनपूर्वका अलिपरम् । अथवा भरतदशादर्शनेन तं धर्ममव धर्मज्ञं देहवन्तमिवापरम् । उवाच प्राञ्जलिर्वाक्यं हनुमान मरुतात्मजः ॥ ३५ ॥ वसन्तं दण्डका रण्ये यं त्वं चीरजटाधरम् । अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥ ३६ ॥ प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् । अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ ३७ ॥ निहत्य रावणं रामः प्रतिलभ्य च मैथि लीम् । उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ३८ ॥ लक्ष्मणश्च महातेजा वैदेही च यशस्विनी । सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ ३९॥ एवमुक्तो हनुमता भरतो भ्रातृवत्सलः । पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ ४० ॥ ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः । हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ४१ ॥ अशोकजैः प्रीतिमयैः कपिमालिङ्गय सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैरास्त्रविन्दुभिः ॥ ४२ ॥ देवो वा मानुषो वा त्वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ४३ ॥ त्रियाख्याने क्षणविलम्बेऽपि प्राणहानिशङ्कया 'सति कुड्ये' इति न्यायेन वन्दनोद्देश्य वस्तुनि शीर्यमाणे किं वन्दनेनेति तदुज्जीवकं प्रियाख्यानमेवाकरोत् यद्वा तद्दशादर्शनेन स्वरूपं विसस्मार ॥ ३७॥ निहत्येति । समृद्धार्थः संपूर्णमनोरथः ॥ ३८ ॥ लक्ष्मणश्चेति । समग्रा संपूर्णमनोरथा, उपयात इति शेषः ॥ ३९ ॥ एवमिति । हृष्टः पपात हर्षान्मोहं जगाम । हेत्यनेन वार्ताश्रवणमात्रेणेतादृशावस्थे भरते झटिति रामागमने काऽवस्था भवेदिति ऋषिर्विस्मयते ॥४०॥ | ॥ ४१ ॥ अशोकजैरिति । भरतः कपिमालिङ्गय । अशोकजैः शोकजभिन्नैः । प्रीतिमयैः आनन्दजैरित्यर्थः । विपुलैः गुरुभिः ॥ ४२ ॥ देवो वेत्यादि । भरतं परि म पार्श्वनायें । भरतं वर्जयित्वा भोक्तुं न व्यवस्यन्तीत्यर्थः ॥ ३४ ॥ तमिति । द्वितीय इवशब्दो वाक्यालङ्कारे || ३५ || ३६ || रामेण सह सङ्गतः सङ्गतप्रायः || ३७-४२ ॥ देव इत्यादि । प्रियं ब्रुवतः ते त्वत्सम्बन्धिनः । प्रियाख्यानस्य प्रियकथनस्य शतसहस्रसङ्ख्यादि गवादिकं ददामीति सम्बन्धः ॥४३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772