________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हेत्वन्तरमाह धर्मवत्सलम्, धर्मार्थतया स्वात्मत्यागे पितृसदृशमित्यर्थः । चतुर्दशे वर्षे पूर्णेऽपि रामागमनादर्शनात् प्राणत्यागे व्यवसितं भरतमालोकयतां | पौराणां खेदातिशयोऽनेन श्लोकेन सूच्यते ॥३४॥ तमिति । देहवन्तमपरं धर्ममिव स्थितम्। द्वितीय इवशब्दो वाक्यालङ्कारे ||३५ ॥ ३६ ॥ प्रियमिति । सङ्गतः, भविष्यसीति शेषः । अत्रापरिचितत्वात् भरतं हनुमान् नावन्दत । यद्वा प्राञ्जलिरिति पदं वन्दनपूर्वका अलिपरम् । अथवा भरतदशादर्शनेन तं धर्ममव धर्मज्ञं देहवन्तमिवापरम् । उवाच प्राञ्जलिर्वाक्यं हनुमान मरुतात्मजः ॥ ३५ ॥ वसन्तं दण्डका रण्ये यं त्वं चीरजटाधरम् । अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥ ३६ ॥ प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् । अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ ३७ ॥ निहत्य रावणं रामः प्रतिलभ्य च मैथि लीम् । उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ ३८ ॥ लक्ष्मणश्च महातेजा वैदेही च यशस्विनी । सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ ३९॥ एवमुक्तो हनुमता भरतो भ्रातृवत्सलः । पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ ४० ॥ ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः । हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ ४१ ॥ अशोकजैः प्रीतिमयैः कपिमालिङ्गय सम्भ्रमात्। सिषेच भरतः श्रीमान् विपुलैरास्त्रविन्दुभिः ॥ ४२ ॥ देवो वा मानुषो वा त्वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ४३ ॥
त्रियाख्याने क्षणविलम्बेऽपि प्राणहानिशङ्कया 'सति कुड्ये' इति न्यायेन वन्दनोद्देश्य वस्तुनि शीर्यमाणे किं वन्दनेनेति तदुज्जीवकं प्रियाख्यानमेवाकरोत् यद्वा तद्दशादर्शनेन स्वरूपं विसस्मार ॥ ३७॥ निहत्येति । समृद्धार्थः संपूर्णमनोरथः ॥ ३८ ॥ लक्ष्मणश्चेति । समग्रा संपूर्णमनोरथा, उपयात इति शेषः ॥ ३९ ॥ एवमिति । हृष्टः पपात हर्षान्मोहं जगाम । हेत्यनेन वार्ताश्रवणमात्रेणेतादृशावस्थे भरते झटिति रामागमने काऽवस्था भवेदिति ऋषिर्विस्मयते ॥४०॥ | ॥ ४१ ॥ अशोकजैरिति । भरतः कपिमालिङ्गय । अशोकजैः शोकजभिन्नैः । प्रीतिमयैः आनन्दजैरित्यर्थः । विपुलैः गुरुभिः ॥ ४२ ॥ देवो वेत्यादि । भरतं परि म पार्श्वनायें । भरतं वर्जयित्वा भोक्तुं न व्यवस्यन्तीत्यर्थः ॥ ३४ ॥ तमिति । द्वितीय इवशब्दो वाक्यालङ्कारे || ३५ || ३६ || रामेण सह सङ्गतः सङ्गतप्रायः || ३७-४२ ॥ देव इत्यादि । प्रियं ब्रुवतः ते त्वत्सम्बन्धिनः । प्रियाख्यानस्य प्रियकथनस्य शतसहस्रसङ्ख्यादि गवादिकं ददामीति सम्बन्धः ॥४३॥
For Private And Personal Use Only