________________
Shri Mahavir Jain Aradhana Kendra
www.kobaithong
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥३६७॥
स
फुल्लान् फुल्लपुष्पान् । स्त्रीभिः सपुत्रदैश्च, स्त्रीबालवृद्धाविशेषेण सर्वेषामानन्दकरत्वादिति भावः। सुराधिपस्य उपवने नन्दनवने, चैत्ररथे च स्थितान्टी .यु.का. दुमान् यथा तत्सदृशानित्यर्थः ॥२७॥२८॥ कोशमाचे वित्यादिश्वोकपञ्चकमेकान्वयम् । क्रोशमा घटिकाद्वयमात्रे, घटिकाइयगन्तव्यभूमौ । कोश लक्षणमुक्तं ज्योतिपदर्पणे-“यवोदरैरङ्गुलमष्टसङ्ख्थैर्हस्तोऽङ्गले पड्डणितेश्चतुर्भिः।हस्तैश्चतुभिर्भवतीह दण्डः कोशः सहस्रद्वितयेन तेषाम् ॥” इति । दीनं । क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् । ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥२९॥ जटिलं मलदिग्धाऊँ भ्रातृव्यसनकर्शितम् । फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥ ३० ॥ समुन्नतजटाभारं वल्कलाजिनवास सम् । नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥३१॥ पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् । चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥ ३२ ॥ उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः। बलमुख्यैश्च युक्तैश्च काषाया
म्बरधारिभिः ॥३३॥ न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् । परि भोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥३४॥ रामादर्शनेन । दान्तं बहिरिन्द्रियनिग्रहशालिनम् ॥२९॥३०॥ समुन्नतजटाभारमिति । पूर्व जटावत्त्वोक्तिः, अत्र तदारस्य समुन्नतत्वोक्तिरिति वैषम्यम् । वल्कलाजिनवाससमित्युत्तरीयोक्तिः। अतश्चीरकृष्णाजिनाम्बरमित्यनेन न पुनरुक्तिः । नियतं नियतवाचम् । भावितात्मानं ध्यातात्मानमिति मनो नियमोक्तिः ॥ ३१ ॥ ते पूर्व रामेण दत्ते । चातुर्वर्ण्यस्य चतुर्वर्णरूपस्य । स्वार्थे ष्यभ् । लोकस्य जनस्य । युक्तैः सन्नः। “योगः सन्नहनोपायच्यान सङ्गतियुक्तिषु" इत्यमरः ॥ ३२ ॥ बलमुख्यैः बलाध्यक्षः। काषायाम्बरधारिभिः “यथा राजा तथा प्रजाः" इति न्यायादिति भावः ॥३३॥ भ्रातृवियोगाद्भरतस्य वल्कलादिधारणमस्तु, अमात्यादीनां तत् किनिमित्तमित्याशय तत्र कारणमाह-न हीति । राजपुत्रं भरतं परि वर्ज यित्वा भोक्तुं समीचीनवस्त्राभरणादीन्यनुभवितुम्, न व्यवस्यन्ति व्यवसायं न कुर्वन्ति । “अपपरी वर्जने " इति परेः कर्मप्रवचनीयसंज्ञा । आचार्याः| प्राहुः-परि परितो वर्तमाना अपि पौराः भरतं भोक्तम् अनुभवितुम्, द्रष्टुमिति यावत् । न व्यवस्यन्ति व्यवसायं न कुर्वन्ति । तद्दर्शने निराशा ॥३६७॥ भवन्तीत्यर्थः । तत्र हेतुमाह राजपुत्रमिति । रामविरहानन्तरक्षणे मृतस्य पुत्रः खल्वयम् । अद्य रामानाममने किमयमस्माभिर्लभ्यत इति भावः । वातवियोगाद्भरतस्य वल्कलादिधारणमस्तु, अमात्यादीनां तु किंनिमित्नमित्याशच तब कारणमाह-नहीति । अमात्यादयः धर्मवत्सलाः पौराः, तेन राजपुत्रं ॥
For Private And Personal Use Only