Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स इति । वृस्यां तपस्विसमुचितासने । “व्रतिनामासनं वृसी” इत्यमरः ॥ ४॥ वक्ष्यमाणवृत्तान्ते प्रामाण्यसिद्धये तत्पूर्ववृत्तं सङ्ग्रहेणानुवदति-यथेत्यादिना । अत्र यथेत्यस्य येन प्रकारेणेत्यर्थः । मातुः मात्रे । राज्येन निमन्त्रितः इत्यन्वयः । अमित्रकर्शनेत्यनेन राज्यकरणसामर्थ्यं स्वस्य सत्यपि ज्येष्ठानुवृत्त्यर्थ | निमन्त्रित इति गम्यते ॥५ - ९॥ अपयात इति । समुद्रान्तेति । अपूर्वपुरुषदर्शनेनेति भावः । परिद्यूनं परितप्तम् ॥१० ॥ तदिति । तत् प्रसिद्धम् । हस्तिभिः
350
Acharya Shri Kailassagarsuri Gyanmandir
सष्ट राजपुत्रेण बृस्यां समुपवेशितः । आचचक्षे ततः सर्वे रामस्य चरितुं वने ॥ ४ ॥ यथा प्रव्राजितो रामो मातुर्दत्तो वरस्तव । यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ ५ ॥ यथा दूतैस्त्वमानीतस्तूर्ण राजगृहात् प्रभो । त्वयाऽयोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥ ६ ॥ चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शन। निमन्त्रितस्त्वया भ्राता धर्ममाचरता सुताम् ॥ ७ ॥ स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् । आर्यस्य पादुके गृह्य यथाऽसि पुनरागतः ॥ ८ ॥ सर्वमेतन्महाबाहो यथावद्विदितं तव । त्वयि प्रतिप्रयाते तु यदवृत्तं तन्निबोध मे ॥ ९ ॥ अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्। परिद्यूनमिवात्यर्थं तद्वनं समपद्यत ॥ १० ॥ तद्धस्तिमृदितं घोरं सिंहव्याघ्र मृगायुतम् । प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥ ११ ॥ तषां पुरस्ताद्बलवान् गच्छतां गहने वने । निनदन सुमहानादं विराधः प्रत्यदृश्यत ॥ १२ ॥ तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् । निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥ १३ ॥ तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ । सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥ १४ ॥ शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः । अभिवाद्य मुनीन् सर्वान् जनस्थानमुपागमत् ॥ १५ ॥
| वनगजैः मृदितम् ॥ ११ ॥ १२ ॥ तमिति । निखाते अवटे । प्रक्षिपन्ति स्मेति बहुवचनेन सीतयाऽपि तत्र किंचित्साहाय्यं कृतमिति गम्यते ॥ १३-१५ ॥ प्रश्नस्यानन्तरं वानरेन्द्रस्य सुग्रीवस्य सचिवोऽहमिति प्रतिवचनं दनुमता दत्तमित्यवगन्तव्यम् ॥ ३ ॥ वृस्यां तपस्थ्युचिनासने ॥ ४९ ॥ अपयाते त्विति । परिधूनं परितप्तमिव ॥ १०-१२ ॥ निखाते गर्ते ।। १३-१८ ॥
For Private And Personal Use Only

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772