Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobalrm.org
Acharya Shri Kalassagarsur Gyanmandir
आपगापति लवयित्वा त्वया सीता यथा अधिगता तथा शंसेत्यन्वयः । समुद्रस्योपयानं समुद्रं प्रति गमनमित्यर्थः । सम्बन्धसामान्ये पष्ठी । समीप यानं वा । सागरस्य समुद्रराजस्य । ब्रह्मणा वरुणेन चेति सहार्थे तृतीया। अनेन महेन्द्रेण वानरसमुत्थापनरूपवरप्रदाने ब्रह्माद्यनुमतिरस्तीति द्योतितम् । पित्रा मम समागममित्येतदन्तस्य शंसेति पूर्वेण संबन्धः। उपयातमिति । अन्यथा चतुमिव चतुर्दशवर्षातिकमात् सोऽग्निं प्रविशेदिति भावः ।
महादेवप्रसादाच्च पित्रा मम समागमम् । उपयातं च मां सौम्य भरतस्य निवेदय ॥ ११॥ सह राक्षसराजेन हरीणां प्रवरेण च ॥ १२॥ एतच्छ्रुत्वा यमाकारं भजते भरतस्तदा । स च ते वेदितव्यः स्यात् सर्व यच्चापि मां प्रति ॥ १३॥ जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः । उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ १४ ॥ ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च । तत्त्वेन मुखवणेन दृष्टया व्याभाषणेन च ॥ १५ ॥ सर्वकामसमृद्धं हि
हस्त्यश्वरथसङ्कलम् । पितृपैतामहं राज्यं कस्य नावर्तयन्मनः ॥ १६ ॥ सौम्येत्यनेन मन्दं मन्दं कथय । अन्यथा हठान्मदागमनश्रवणे हौऽस्य उन्मस्तको भवेदिति भावः ॥७-१२ ॥ त्वमेव राज्यं पालयेति मयोक्ते भरत स्तदङ्गीकरोति न वति तदाकारस्त्वया ज्ञातव्य इत्याह--एतच्छुत्तति । एतत् उपयानम् । आकारं मुखप्रसादादिकम् । मां प्रति यत् इङ्गितचेष्टादि कम् ॥ १३ ॥ जित्वा शत्रुगणानित्यादिश्लोकद्वयमेकान्वयम् । एतच्छोकान्ते इत्युक्त्वेत्यध्याहर्तव्यम् । ज्ञेया इति श्लोकेन पूर्वोक्तमेव विशेष्यते तत्त्वेनेत्यस्य ज्ञेया इत्यनेन सम्बन्धः। अत्रापि पूर्ववद्राज्यं पालयेति मदुक्तिं भरतः किमङ्गीकरोतीति परीक्षस्वति भावः । अन्यथा भरतप्रकृतेः राम प्रकृतेश्च विरुदं स्यात् । यावेवमूचतुः "न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः" इति, "यावन्न चरणो भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयि प्यामि न मे शान्तिर्भविष्यति ॥” इति च ॥ १४॥१५॥ ननु किं परीक्षणीयं सर्वस्यापि राज्याधिपत्यकातिवादित्याशङ्कयाह-सर्वेति । पितृपितामह ब्रह्मणा वरुन चेनि सहाय तृतीया । वरः वानरसनुत्थानरूपः । अतः ब्रह्मवरूण पोरवि वरदानकर्तृत्वाभिधानात् वरदानकाले ब्रह्माद्यनुमत्या महेन्द्रो वरं
प्रादादित्यवगम्यते ॥ १०-१२ ॥ एतदिति । यम आकारं खेदानन्दसूचकम् । ते त्वया ॥१२॥१४॥ ज्ञेया इति । तरखेन याथातथ्येन वृत्तान्ता ज्ञेया इति सम्बन्धः du १५ ॥ त्वयि तादृशसौददलतो भरतस्य भावपरीक्षणं न कर्तव्यमित्याशय तादृशानामपि हृदयस्थ प्रायशो राज्यश्रिया आकर्षणं सम्भाव्यत इत्याह-सर्व
For Private And Personal Use Only

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772