Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
तस्येत्यादिसाश्शोकद्वयमेकान्वयम् । बाढमिति प्रतिगृह्य, तस्मिन् दिने तत्र पूजामङ्गीकृत्येत्यर्थः । धीमान् अद्यात्र स्थित्वा भरतं प्रति दूतप्रेषणमुचित । मिति ज्ञानवानित्यर्थः । मधूनि स्रवन्तीति मधुस्रवाः । गच्छतः, ममेति शेषः । मयि गच्छति सतीत्यर्थः । भवन्तु, अत्रेतिकरणं बोध्यम् । इति वरमया चतेति.सम्बन्धः॥१७॥१८॥ तथेति चेत्यादिसाचोकद्वयमेकान्वयम् । योजना योजनानि। “सुपा सुलुक्-" इत्यादिना पूर्वसवर्णादेशः। अत्यन्तसंयोगेश
तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः । बाढमित्येव संहृष्टो धीमान वरमयाचत। अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः।।१७॥फलान्यमृतकल्पानि बहूनि विविधानि च । भवन्तु मार्गे भगवन्नयोध्या प्रति गच्छतः॥१८॥ तथेति च प्रतिज्ञाते वचनात् समनन्तरम् । अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ॥१९॥ निष्फलाः फलिनश्चा सन् विपुष्पाः पुष्पशालिनः । शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः॥२०॥ सर्वतो योजना त्रीणि गच्छता मभवंस्तदा ॥२१॥ ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव । कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव ॥ २२ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे सप्तविंश
त्युत्तरशततमः सर्गः॥ १२७॥ द्वितीया । गच्छतां वानराणां फलिनश्वासन्निति कमेणान्वयः।इदं चोत्तरदिनकार्य सौकर्याय ऋषिणा दर्शितम् ॥ १९-२१॥ तत इति । ते प्रस्थिताः। स्वर्गजितो यथा स्वर्गिण इव ॥ २२॥ रामानु-ते प्रसिद्धाः, स्वर्गजित इव प्रहृष्टास्ते वगर्षभा इति तच्छन्दयोः संवन्धः ॥ २२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशत्युत्तरशततमः सर्गः ॥ १२७ ॥ योजना त्रीणि “ सुपां मुलुक-" इत्यादिना पूर्वसवर्णादेशः ॥२१॥ तत इति । ते उपाभन्तीति, ते स्वर्गजितो यथा ते स्वर्गजित इव प्रहृष्टाः पूवर्षमाः इति तच्छन्दयस्य निर्वाहः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां सप्तविंशत्युत्तरशततमः सर्गः ॥१२७॥
For Private And Personal Use Only

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772