Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अधिकाक्षरत्वेऽपि पूर्वप्रयोगेणाभ्यर्हितत्वाच्च पुराणेभ्यो गरीयानिति “वेदःप्राचेतसादासीत्" इति वेदमयत्वोक्त्या चतुर्मुखवरप्रदानमूलतया च प्रबलतरः। तद्विरोघे तामसपुराणवचनानि न प्रमाणानि । किंच पुराणं सर्गप्रतिसर्गादिष्वन्यपरमिति नेतिहासवत् पुरावृत्तकथने तात्पर्यवत् । अथवा अस्मिन् सगै श्लोकाः प्रायझो व्यत्यस्ता दृश्यन्ते इत्युडारिप्रभृतिभिरुक्तम् । तथा चेदमर्थम् “अत्र मण्डोदरी" इति श्लोकानन्तरं पठितव्यम् । तत्र च महाप्रसादः
अत्रराक्षसराजोऽयमाजगाम विभीषणः ॥ १८॥ एषा सा दृश्यते सीते किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ १९ ॥ अथ दृष्ट्वा पुरी सीता किष्किन्धा वालिपालिताम् । अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ॥२०॥ सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप । अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् । गन्तुमिच्छे सहायोध्या राजधानी त्वयाऽनघ ॥२१॥ एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् । एवमस्त्विति किष्किन्धा प्राप्य संस्थाप्य राघवः । विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥२२॥ ब्रूहि वानर
शार्दूल सर्वान वानरपुङ्गवान् । स्वदारसहिताः सर्वे ह्ययोध्या यान्तु सीतया ॥ २३ ॥ स्वपितृदर्शनमेव । अत एव भरतं प्रति हनुमत्प्रेषणावसरे वक्ष्यति-"महादेवप्रसादाच पित्रा मम समागमम्" इति । पुराणान्तरं तु माहात्म्य प्रतिपादनपरं बोध्यमिति संक्षेपः ॥ १७॥ अब राक्षसराज इति । अत्र समुद्रराजप्रसादप्रदेशादुत्तरतः ॥ १८॥ एषति । पम्पावनमधुवनाद्यपेक्षया चित्रकाननेत्युक्तिः ॥१९॥ अथेति । प्रणयसाध्वसा प्रणययुक्तसाध्वसवती प्रणतसाधसेति पाठे-उपनतसाचसा । सुग्रीवादिसन्निधानात् प्रणयसाध्व सेति प्रथमभाषणरूपत्वादा ॥२०॥ सुग्रीवेत्यादिसायलोक एकान्वयः। अहं ताराप्रमुखतः ताराप्रमुखाभिः सुग्रीवप्रियभायाभिः सह अन्येषां वान रेन्द्राणां स्त्रीभिश्च परिवृता सती त्वया सह अयोध्यां गन्तुम् इच्छे इच्छामीति संबन्धः । आत्मनेपदमार्षम् ॥२१॥ एवमित्यादिसाचोक एकान्वयः। एवमस्त्विति सीतां प्रत्युवाच । अथ किष्किन्धां प्राप्य विमानं संस्थाप्य सुग्रीवं प्रेक्ष्योबाचेति संबन्धः॥२२॥हीति । यान्त्तित्यत्र इतिकरणं इष्टव्यम् । चित्रकानना मधुवनादिदिव्यकाननोपेना ॥१९॥ प्रणयसाध्वसा प्रणययुक्तसाध्वसा । प्रणतसाध्वसा इति पाठे-प्रणेतुभुपनेतुं प्राप्तं साध्वसं यया सा ॥ २०॥ सुग्रीवे त्यादि । ताराप्रमुखतः ताराप्रमुखीभिः सुपीवप्रियभायांभिस्सह अन्येषां वानरेन्द्राणां खीभिः परिवृता परिवारिता त्वया सह अयोध्यो गन्तुमिच्छामीति सम्बन्धः ॥२१॥२२॥ बहीत्यादिश्लोकद्वयमेकं वाक्यम् । यानित्वत्यतिकरण द्रष्टव्यम् । सर्वे सीनया हेतुभूनया सीतामियार्थमित्यर्थः । स्वदारसहितास्सन्तः॥ २३-२६॥
For Private And Personal Use Only

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772