SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अधिकाक्षरत्वेऽपि पूर्वप्रयोगेणाभ्यर्हितत्वाच्च पुराणेभ्यो गरीयानिति “वेदःप्राचेतसादासीत्" इति वेदमयत्वोक्त्या चतुर्मुखवरप्रदानमूलतया च प्रबलतरः। तद्विरोघे तामसपुराणवचनानि न प्रमाणानि । किंच पुराणं सर्गप्रतिसर्गादिष्वन्यपरमिति नेतिहासवत् पुरावृत्तकथने तात्पर्यवत् । अथवा अस्मिन् सगै श्लोकाः प्रायझो व्यत्यस्ता दृश्यन्ते इत्युडारिप्रभृतिभिरुक्तम् । तथा चेदमर्थम् “अत्र मण्डोदरी" इति श्लोकानन्तरं पठितव्यम् । तत्र च महाप्रसादः अत्रराक्षसराजोऽयमाजगाम विभीषणः ॥ १८॥ एषा सा दृश्यते सीते किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ १९ ॥ अथ दृष्ट्वा पुरी सीता किष्किन्धा वालिपालिताम् । अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ॥२०॥ सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप । अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् । गन्तुमिच्छे सहायोध्या राजधानी त्वयाऽनघ ॥२१॥ एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् । एवमस्त्विति किष्किन्धा प्राप्य संस्थाप्य राघवः । विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥२२॥ ब्रूहि वानर शार्दूल सर्वान वानरपुङ्गवान् । स्वदारसहिताः सर्वे ह्ययोध्या यान्तु सीतया ॥ २३ ॥ स्वपितृदर्शनमेव । अत एव भरतं प्रति हनुमत्प्रेषणावसरे वक्ष्यति-"महादेवप्रसादाच पित्रा मम समागमम्" इति । पुराणान्तरं तु माहात्म्य प्रतिपादनपरं बोध्यमिति संक्षेपः ॥ १७॥ अब राक्षसराज इति । अत्र समुद्रराजप्रसादप्रदेशादुत्तरतः ॥ १८॥ एषति । पम्पावनमधुवनाद्यपेक्षया चित्रकाननेत्युक्तिः ॥१९॥ अथेति । प्रणयसाध्वसा प्रणययुक्तसाध्वसवती प्रणतसाधसेति पाठे-उपनतसाचसा । सुग्रीवादिसन्निधानात् प्रणयसाध्व सेति प्रथमभाषणरूपत्वादा ॥२०॥ सुग्रीवेत्यादिसायलोक एकान्वयः। अहं ताराप्रमुखतः ताराप्रमुखाभिः सुग्रीवप्रियभायाभिः सह अन्येषां वान रेन्द्राणां स्त्रीभिश्च परिवृता सती त्वया सह अयोध्यां गन्तुम् इच्छे इच्छामीति संबन्धः । आत्मनेपदमार्षम् ॥२१॥ एवमित्यादिसाचोक एकान्वयः। एवमस्त्विति सीतां प्रत्युवाच । अथ किष्किन्धां प्राप्य विमानं संस्थाप्य सुग्रीवं प्रेक्ष्योबाचेति संबन्धः॥२२॥हीति । यान्त्तित्यत्र इतिकरणं इष्टव्यम् । चित्रकानना मधुवनादिदिव्यकाननोपेना ॥१९॥ प्रणयसाध्वसा प्रणययुक्तसाध्वसा । प्रणतसाध्वसा इति पाठे-प्रणेतुभुपनेतुं प्राप्तं साध्वसं यया सा ॥ २०॥ सुग्रीवे त्यादि । ताराप्रमुखतः ताराप्रमुखीभिः सुपीवप्रियभायांभिस्सह अन्येषां वानरेन्द्राणां खीभिः परिवृता परिवारिता त्वया सह अयोध्यो गन्तुमिच्छामीति सम्बन्धः ॥२१॥२२॥ बहीत्यादिश्लोकद्वयमेकं वाक्यम् । यानित्वत्यतिकरण द्रष्टव्यम् । सर्वे सीनया हेतुभूनया सीतामियार्थमित्यर्थः । स्वदारसहितास्सन्तः॥ २३-२६॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy