________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.
.
१३६१
सीतया निमित्तभूतरा, सीताप्रियार्थमित्यर्थः ॥२३॥ तथा त्वमपीति । अत्र याहीति विपरिणामेन संबन्धः अभित्वरस्व । किष्किन्धायां विलम्बो न लाटी.यु.का. कार्य इत्यर्थः ॥२४॥ एवमुक्त इति । सः समावृतो वानराधिपतिरुक्ता इत्यन्वयः ॥२५॥ प्रविश्येति । अर्धमेकं वाक्यम् । प्रवेशः सुग्रीवस्यैव, न तु
स. १२५ वानराणाम् ।भापत अभाषत ॥२६॥ नारीभिःखीभिः सह अनुज्ञाता, अयोध्यागमनं प्रतीति शेषः । त्वं च वानरखियश्चानुज्ञाता इत्यर्थः । नारीणामिति
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल । अमित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ॥२४॥ एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा । वानराधिपतिः श्रीमांस्तैश्च सर्वेः समावृतः॥२५॥ प्रविश्यान्तःपुरं शीघ्रं तारामुद्रीक्ष्य भाषत ॥ २६ ॥ प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् । राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥२७॥ त्वर त्वमभिगच्छामो गृह्य वानरयोषितः। अयोध्या दर्शयिष्यामः सर्वा दशरथस्त्रियः॥२८॥ सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना। आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ।। २९ ॥ सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वेश्च वानरैः । मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ ३० ॥ प्रवेशं चापि रामस्य पौरजानपदैः
सह । विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥३१॥ पाठे तृतीयार्थे षष्ठी ॥२७॥ गृह्य गृहीत्वा, आनीयेति यावत् । दर्शयिष्यामः द्रक्ष्यामः । दशरथस्त्रियः दशरथस्त्रियश्च ॥ २८॥ सुग्रीवस्यति । सर्वाङ्ग शोभनेत्यनेन पूर्व स्वयमलंकृतवतीति गम्यते॥२९॥सुग्रीवेणेत्यादिश्लोकदयमेकान्वयम् । सुग्रीवेण सर्वानरैः स्वस्वभर्तृभिनिरैः सह, अयोध्यां गन्तुमभ्यनु ज्ञाताः, यूयमिति शेषः । न केवलं सुग्रीवानुज्ञामा मत्प्रियायै च भवतीभिरागन्तव्यमित्याह-मम चापीति । अयोध्यादर्शनेन मम यत्मियं तद्भवतीभिः सहागत्य कार्यमित्यर्थः । रामस्य प्रवेशं च दशरथस्य स्त्रीणां विभूतिम् ऐश्वर्य च, द्रक्ष्याम इति शेषः ॥ ३० ॥ ३१ ॥ रामानु-सुग्रीवेणाभ्यनुज्ञाताः, प्रिये इत्यादि । वानराणां नारीभिस्सह त्वम् अभ्यनुज्ञाता अतः वानरयोषितः गृह्य गच्छापः अयोध्या दशरथस्त्रियश्च दर्शयिष्यामः द्रश्यामा, त्वममि
4
॥३६॥
For Private And Personal Use Only