Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥३६३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवेशः। तद्रात्रावेव दशरथस्य निर्याणम् । एकादश्यां राज्ञस्तेलद्रोण्यां निक्षेपः । द्वादश्यां भरतं प्रति दूतप्रेषणम् । ते च दूता मांगें त्रयोदशीं चतुर्दशीं चापनीय पौर्णमास्यां रात्रौ केकयनगरं प्रविविशुः । प्रतिपदि भरतस्यायोध्यां प्रत्यागमनम् । तत्र च मार्गे सप्त रात्रीरूषित्वा अष्टमे दिने त्वरा (तिशयेनाहोरात्रमागत्य नवम्यां सूर्योदये भरतस्यायोध्याः वेशः । तस्यामेव दशरथसंस्कारः । तद्रारभ्य त्रयोदशदिने वैशाख शुद्धपञ्चम्यां तत्पूर्वदिने च भरतेन राज्ञः श्राद्धकर्मकरणम् । पष्ठयां तद्देशीयाचारसिद्धं दहनदेशशोधनम् । सप्तम्यां मार्गशोधनाय कर्मान्तिक प्रेषणम् । कर्मान्तिकैश्च दशमी पर्यन्तं चतुर्दिनं मार्गशोधनम्। एकादश्यां भरतस्य रामसकाशं प्रति गमनम्। तद्रात्रौ गङ्गातीरे निवासः। द्वादश्यां भरद्वाजाश्रमे । त्रयोदश्यां रामसमागमः । चतुर्दशीपौर्णमासीप्रतिपत्सु चित्रकूटे भरतस्य निवासः । वैशाख बहुलद्वितीयायां भरतस्यायोध्यां प्रति प्रयाणम् । चतुर्थ्यामयोध्याप्रवेशः। इत्येवं सार्धमासे २७ गते वैशाखबहुलपञ्चम्यां रामस्य चित्रकूटात्रिर्गमः अध्याश्रमप्रवेशश्च । एवमाश्रममण्डलवासेन सह सार्घमासेषु दशसंवत्सरेषु गतेषु अवशिष्टकाले पञ्च वटीवासे तत्र त्रयोदशवर्षेषु गतेषु ततश्चतुर्दशे वर्षे चैत्रमासे सीताहरणम् । वैशाखे सुग्रीवदर्शनम् । आषाढे वालिबधः । आश्वयुजे सैन्योद्योगः । फाल्गुने * प्रायोपवेशः। फाल्गुनशुद्धचतुर्दश्यां लङ्कादाहः । फाल्गुनामावास्यायां रावणवधः । चैत्रशुद्धप्रतिपदि रावण संस्कारादि । द्वितीयायां विभीषणाभिषेकः, सीताप्राप्ति देवताप्रस्थानानि च । तृतीयायां लङ्कानि । चतुर्थ्यां किष्किन्धायां वासः । पञ्चम्यां भरद्वाजाश्रमे वासः । अत्र वक्तव्योपपत्तयस्तत्र तत्र प्रदर्शिताः । अस्मिन् प्रकारे हनुमत्सन्निधाने, 'द्वौ मासौ रक्षितव्यों में' इति रावणवचनं सीता सान्त्वनपरम्। 'मासादूर्ध्वं न जीविष्ये' इति सीतावचनं तु सम्यक् संगच्छते । मासशब्दस्य वर्तमानमानपरत्वं चासकृदुक्तन् । रावणेन 'दश मासा गताः अवशिष्टौ द्वौ मासो' इत्युक्तिर्मधुपानमत्ततया अविवेक कृता । सीतायाः 'मासादूर्ध्वम्' इति वचनं तु वर्तमानमासपरमिति विवेकः । भरद्वाजाश्रमं प्राप्येत्यनेन महतां स्थानमपि प्राप्यमित्युक्तम् । नियतः कुम्भनिकुम्भमकराक्षाणां वधः एकादशीमारभ्य पुनरिन्द्रजितत्रिरात्रं युद्धम्, लक्ष्मणेन त्रयोदश्यामिन्द्रजिद्वधः । अत्र च प्रमाणम्- “ अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः" इत्येतद्वचनम् । चैत्रशुक्ल प्रथमागां रावणस्य संस्कारः । द्वितीयायां विभीषणस्याभिषेकः । तृतीयायां देवीसमागमः । " तां रात्रिमुषितं रामम्" इत्युक्तत्वात चतुर्थ्यां प्रतिप्रयाणं किष्किन्धाप्राप्तिश्च । पञ्चम्यां भरद्वाजाश्रमप्राप्तिरिति । अस्यां पञ्चम्यां चतुर्दशवर्षस्संपूर्णः । " चतुर्दशे हि सम्पूर्णे ॥ २६३ ॥ वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् । तथेति च प्रतिज्ञाय संपरिष्वज्य सादरम् " इत्येतदत्र प्रमाणम् । षष्ठयां नन्दिग्रामं प्राप्य ७ जटाविशोधनं कृत्वा अयोध्याप्राप्तिः । सप्तम्यां पुष्यनक्षत्रे श्रीरामचन्द्र पट्टाभिषेक इत्येवं क्रमो वेदितव्यः ॥ १ ॥
For Private And Personal Use Only
टा.पु.का. स० [१२७

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772