Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 725
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kalassagarsun Gyanmandir अथ विलासेन सीताय तत्तद्देशप्रदर्शनम्-अनुज्ञातं त्वित्यादि ॥ १॥ पातयित्वेति । मैथिली, राजपुत्रीत्वेन लालनीयत्वोक्तिः ॥ २ ॥ ३ ॥ एतदिति । । । आयोधनं युद्धभूमिम् । विशस्यन्तेऽस्मिन्निति विशसनम् । अधिकरणे ल्युट् ॥ १॥ अत्रेवि । दत्तवरः ब्रह्मणा दत्तवरः । प्रमाथी हिंसकः । शेते भस्म स्वरूपेणेत्यर्थः ॥ ५॥ रामानु-अभ दत्तवरः शेते इति पाठः । शेते अशयिष्ट ॥५॥ कुम्भकर्ण इति । प्रहस्तश्चेत्यत्र नीलेनेत्यध्याहार्यम् ॥ ६॥ विद्युन्मालीति। अनुज्ञातंग्तु रामेण तद्विमानमनुत्तमम् । उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १॥ पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः । अबवीन्मैथिली सीता रामः शशिनिभाननाम् ॥२॥ कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् । लङ्कामीक्षस्व वैदेहि निर्मिता विश्वकर्मणा ॥ ३ ॥ एतदायोधनं पश्य मांसशोणितकर्दमम् । हरीणां राक्षसानां च सीते विशसनं महत् ॥४॥अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि रावणो निहतो मया॥५॥ कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः । धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ ६ ॥ विद्युन्माली हतश्चात्र सुषेणेनामहात्मना ॥ ७॥ लक्ष्मणेनेन्द्रजिच्चात्र रावणिनिहतो रणे । अङ्गदेनात्र निहतो विकटो नाम राक्षसः॥८॥ विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ । अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः॥९॥ अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् । सपत्नीनां सहस्रेण सास्रेण परिवारिता ॥ १०॥ एतत्तु दृश्यते तीर्थ समुद्रस्य वरानने। यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥१॥ पूर्वमनुक्तमपि अत्रानुवादात् ग्राह्यम् । एवं विकट इत्यत्रापि ॥ ७-१०॥ रामानु-अनदेनात्र निहतो विकटो नाम राक्षसः इत्यनुक्तस्य विकटस्थात्र निहतत्वानुवादादन्ये येतादृशा बहवो निहता इत्यवगम्यते ॥ ८ ॥ एतविति । तीर्थम् उत्तरणस्थानम् । यत्र तीर्थे । तां रात्रि सागरतरणरात्रिम् ॥११॥ ॥ पातयित्वा सचार्य ॥२॥३॥ आयोधनं युद्धस्थानम् । विशसनं विशसनवत् ॥ ४॥ दत्तवरः प्राप्तवरः रावणो मया निहतः शेते भस्मास्थिरूपेण वर्तते ३५-७॥ अङ्गदेन विकटोहत इत्यनुवादात्तदपि जातमिति बोध्यम् ॥८-१०॥ पतत्त्विति । यत्र तीर्थप्रदेशे तो राबि यस्यामुत्तीर्णः सागरः तत्सम्बन्धिी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772