________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ विलासेन सीताय तत्तद्देशप्रदर्शनम्-अनुज्ञातं त्वित्यादि ॥ १॥ पातयित्वेति । मैथिली, राजपुत्रीत्वेन लालनीयत्वोक्तिः ॥ २ ॥ ३ ॥ एतदिति । । । आयोधनं युद्धभूमिम् । विशस्यन्तेऽस्मिन्निति विशसनम् । अधिकरणे ल्युट् ॥ १॥ अत्रेवि । दत्तवरः ब्रह्मणा दत्तवरः । प्रमाथी हिंसकः । शेते भस्म स्वरूपेणेत्यर्थः ॥ ५॥ रामानु-अभ दत्तवरः शेते इति पाठः । शेते अशयिष्ट ॥५॥ कुम्भकर्ण इति । प्रहस्तश्चेत्यत्र नीलेनेत्यध्याहार्यम् ॥ ६॥ विद्युन्मालीति।
अनुज्ञातंग्तु रामेण तद्विमानमनुत्तमम् । उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १॥ पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः । अबवीन्मैथिली सीता रामः शशिनिभाननाम् ॥२॥ कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् । लङ्कामीक्षस्व वैदेहि निर्मिता विश्वकर्मणा ॥ ३ ॥ एतदायोधनं पश्य मांसशोणितकर्दमम् । हरीणां राक्षसानां च सीते विशसनं महत् ॥४॥अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः। तव हेतोर्विशालाक्षि रावणो निहतो मया॥५॥ कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः । धूम्राक्षश्चात्र निहतो वानरेण हनूमता॥ ६ ॥ विद्युन्माली हतश्चात्र सुषेणेनामहात्मना ॥ ७॥ लक्ष्मणेनेन्द्रजिच्चात्र रावणिनिहतो रणे । अङ्गदेनात्र निहतो विकटो नाम राक्षसः॥८॥ विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ । अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः॥९॥ अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् । सपत्नीनां सहस्रेण सास्रेण परिवारिता ॥ १०॥ एतत्तु दृश्यते तीर्थ समुद्रस्य वरानने। यत्र
सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥१॥ पूर्वमनुक्तमपि अत्रानुवादात् ग्राह्यम् । एवं विकट इत्यत्रापि ॥ ७-१०॥ रामानु-अनदेनात्र निहतो विकटो नाम राक्षसः इत्यनुक्तस्य विकटस्थात्र निहतत्वानुवादादन्ये येतादृशा बहवो निहता इत्यवगम्यते ॥ ८ ॥ एतविति । तीर्थम् उत्तरणस्थानम् । यत्र तीर्थे । तां रात्रि सागरतरणरात्रिम् ॥११॥
॥ पातयित्वा सचार्य ॥२॥३॥ आयोधनं युद्धस्थानम् । विशसनं विशसनवत् ॥ ४॥ दत्तवरः प्राप्तवरः रावणो मया निहतः शेते भस्मास्थिरूपेण वर्तते ३५-७॥ अङ्गदेन विकटोहत इत्यनुवादात्तदपि जातमिति बोध्यम् ॥८-१०॥ पतत्त्विति । यत्र तीर्थप्रदेशे तो राबि यस्यामुत्तीर्णः सागरः तत्सम्बन्धिी
For Private And Personal Use Only