________________
San Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भ.
॥३५८०
स
१२५
प्रियात्प्रियतरमिति । सीतालाभः प्रियम्, भरतदर्शनं प्रियाप्रियम् , भवद्भिः सह पुरप्रवेशः प्रियात्प्रियतरमित्यर्थः॥२४॥२५॥ तत इति । शीघ्र शीघ्रगटो .यु.कां. मिति विमानविशेषणम् । त्वरनिति सुग्रीवविशेषणात्॥२६॥आसनं वाहनम्॥२७॥ ययाविति । हंसयुक्तेन प्रतिमारूपहंसयुक्तेन । प्रतीतः श्लाषितः॥२८॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः । अब्रवीद्राघवः श्रीमान ससुग्रीवविभीषणान् ॥ २३ ॥ प्रियात् प्रिय तरं लब्धं यदहं ससुहृज्जनः। सर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ २४ ॥ क्षिप्रमारोह सुग्रीव विमानं वानरैः सह । त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ २५॥ ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया। अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ॥ २६ ॥ तेष्वारूढेषु सर्वेषु कौवेरं परमासनम् । राघवेणाभ्यनुज्ञात मुत्पपात विहायसम् ॥ २७॥ ययौ तेन विमानेन हंसयुक्तेन भास्वता । प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ २८ ॥ ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः । यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ॥ २९॥ इत्यार्षे
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥ ते सर्व इति । यथासुखमसम्बाधमिति पदद्वयेन दिव्यस्य पुष्पकस्य अपेक्षितावकाशप्रदत्वं गम्यते॥२९॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाल्याने युद्धकाण्डव्याख्याने पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥ प्रियादिति । प्रियात्मियतरं कृतकृत्यस्य ममायोध्याप्रवेशः नियम, तत्र स्वजनैः भरतादिभिः सहितो भवद्भिस्सह अभिषेकमीतिमनुभविष्यामीत्वतत्ततोऽपि प्रियतरमित्यर्थः ॥२४-२७ ॥ हंसयुक्तेन अत्र ईसशब्देन इंसबद्ब्रह्मवाहकत्वाकारेण निर्मिता हंसा उच्यन्ते । प्रष्ट हष्टरोमा । प्रतीतः प्रष्टचेताः ॥२८॥ असंबाधमित्यनेन विमानस्य वैपुल्यमुक्तम ॥२९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व युद्धकाण्डव्याख्यापो पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२॥
स०-खगतेन विमानेन इति पाठः । जगतेन आकाशगतेन । हंसयुक्तेन वाहकावेन निर्मितहंसप्रतिमायुक्तेन । सुन्दरकाण्डे राक्षसपिशाचादीनां तबादकोक्तिस्तु लीलया रावणनियुक्तराक्षसादीनपेक्ष्य । वनुतस्तु तविमान देवस्यैव ताशशक्तिमावेन खेष्ठपवान्यनिरपेक्षेण गतिरिति ज्ञेयम् । प्रतीतः प्रसिदः ॥ २८ ॥
॥३५८०
For Private And Personal Use Only