________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
-
%
समतया प्रदाने अधिकानां कोपप्रसङ्गादिति भावः ॥१३॥ तत इत्यादिलोकद्वयमेकान्वयम् । ततः पूजानन्तरम् । ततः पूजादर्शनादेव हेतोरिति ततः शन्दद्वययोजना । लजमानां सदस्यङ्कारोहणाय लज्जन्तीम् । रामेणाक्षारोपणं च स्त्रीसहायरहितत्वात् । धनुष्मता रामधनुशरिणा ॥ १२-१४॥ ततस्तान पूजितान् दृष्ट्वा रत्नैरर्थेश्च यूथपान् । आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ १२ ॥ अथैनादाय वैदेही लज्जमानां यशस्विनीम् । लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ १३॥ अब्रवीच विमानस्थः पूजयन् सर्व वानरान् । सुग्रीवं च महावीर्य काकुत्स्थः सविभीषणम् ॥१४॥ मित्रकार्य कृतमिदं भवद्भिनिरोत्तमाः। अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥१५॥ यत्तु कार्य वयस्येन सुहृदा वा परन्तप । कृतं सुग्रीव तत् सर्व भवताऽधर्म भीरुणा ॥१६॥ किष्किन्ध प्रतियाह्याशु स्वसैन्येनाभिसंवृतः॥१७॥ स्वराज्ये वस लङ्कायां मया दत्ते विभीषण। न त्वा धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥१८॥ अयोध्या प्रतियास्यामि राजधानी पितुर्मम । अभ्यनुज्ञातु मिच्छामि सर्वांश्चामन्त्रयामि वः ॥१९॥ एवमुक्तास्तु रामेण वानरास्ते महाबलाः । ऊचुःप्राञ्जलयोरामं राक्षसश्च विभीषणः ॥२०॥ अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् । उद्युक्ता विचरिष्यामो वनानि नगराणि च
॥२१ ॥ दृष्ट्वा त्वामभिषेकाई कौसल्यामभिवाद्य च । अचिरेणागमिष्यामः स्वान गृहान् नृपतेः सुत ॥२२॥ अब्रवीच्छेत्यत्र संग्रहेणोक्तं विवृणोति-मित्रेत्यादिना । वानरान् प्रत्याह-मित्रेति ॥ १५ ॥ सुग्रीवं प्रत्याह-यत्त्वित्यादिना । सुहृदा शोभन हृदयेन । वाशब्द एवकारार्थः । अधर्मभीरुणेति च्छेदः ॥ १६ ॥ १७॥ विभीषणं प्रत्याइ-स्वति । स्वराज्ये वस । न तु परकीयं रावणवदाक्रमितव्यम् । अतो जनस्थानरक्षिणः समानेतव्या इति भावः ॥ १८-२०॥ अयोध्यामिति । उद्युक्ताः सारधानाः, जनपदपीडामकुर्वन्त इत्यर्थः ।। २१-२३ ॥ मशं परिकल्प्येत्यर्थः ॥ ११-१५ ॥ यत्तु कार्यमिति । अधर्मभीरुणेति छेदः ॥ १६॥१७॥ न त्वां धर्षयितुं शक्काः, त्वयि मत्प्रसादादिति भावः ॥ १८॥ अभ्यतु | ज्ञातुमिच्छामि, भवद्भिरिति शेषः ॥ १९-२१॥ अभिषेकार्दै त्वां दृष्ट्रा तदेव सर्वेषामस्माकं मातरं कौसल्पामभिवाद्य च ॥ २२ ॥ २३ ॥
%
-
%
For Private And Personal Use Only