________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
ना. ग.भू. ॥३५॥
लक्ष्मणसंगतिपूर्वकमित्यर्थः॥३॥ प्रयत्नकर्म प्रयत्नसाध्यं कर्मेत्यर्थः । अथैः प्रयोजनैः, वस्त्रादिभिरित्यर्थः॥४॥ अजिता पूर्व सुरादिभिरप्यजिता टी.यु.को. तव टङ्काज्यप्राप्तिख तीनेत्यर्थः । हृष्टैः मयि प्रीतिमद्भिरित्यर्थः ॥५॥ ६॥ त इम इत्योक्तं भङ्गयन्तरेणाह-धनरत्नति ॥ ७॥ निर्वतास. १२५ सुखिताः । निर्वृत्ता इति पाठे-निष्पन्नाः, परिपूर्णा इति यावत् ॥ ८॥ अर्थव्ययेन खेदो मा भूदित्याह-त्यागिनमिति । संग्रहीतारं धनप्रदानेन मित्र
कृतप्रयत्नकमाणो विभीषण वनौकसः। रत्नरर्थेश्च विविधैर्भूषणैश्चापि पूजय ॥४॥ सहेभिरजिता लङ्का निनिता राक्षसेश्वर । हृष्टेः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः॥५॥त इमे कृतकर्माणः पूज्यन्लां सर्ववानराः ॥६॥ धनरत्नप्रदानेन कर्मेषां सफलं कुरु ॥७॥ एव संमानिताश्चैते मानाहीं मानद त्वया। भविष्यन्ति कृत शेन निर्वृता हरियूथपाः ॥ ८॥ त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् । सर्वे त्वामवगच्छन्ति ततः सम्बोध याम्यहम् ॥ ९॥ हीनं रतिगुणैः सर्वेरभिहन्तारमाहवे । त्यजन्ति नृपति सैन्याः संविनास्तं नरेश्वरम ॥३०॥
एवमुक्तस्तु रामेण वानरांस्तान विभीषणः । रत्नार्थेः संविभागेन सर्वानेवाभ्यपूजयत् ॥११॥ संग्रहकारिणमित्यर्थः । संग्रहार्थ त्यागित्वमुक्त्वा दयया त्यागित्वमाह-सानुक्रोशमिति । यशस्विनं त्यागकृतयशोवन्तम् । संबोधयामि न तु चोदया। मीत्यर्थः ॥ ९॥ सैनिकसम्मानाकरणे दोषमाह-हीनमिति । नृपति स्वामिनमपि । रतिगुणैः प्रीतिकरैरौदार्यादिगुणैः, हीनम् । अभिहन्तारं हिंसन शीलम्, प्रसादं विना क्रोधकनिरतमिति यावत् । तं नरेश्वरं सैन्याः संविनाः आहवे त्यजन्तीति योजना ॥ १०॥ संविभागेन यथार्हमशकल्पनया । सतु बद्धाञ्जलिरिति ॥ २॥ ३ ॥ कृतं प्रयत्नेन कर्म युद्धकर्म येस्ते । अर्थः विचित्रानपानवस्त्रादिभिः ॥४॥ पभिस्सह लङ्का निर्जितेत्यनेन तव लङ्काराज्य प्राप्तिरपि वानरपराक्रमादेवेन्युक्तं भवति ॥५-८॥ त्वा तत्सत्कारसमर्थ तेषां च सत्कारपियत्वं ज्ञात्वेव त्वा तत्सत्कारे निघोजयामीत्याह-त्यागिनमिति । उचितविषये इति शेषः । संग्रहीतारं, यथान्यायं रत्नादेरिति शेषः ॥९॥ नृपति स्वामिनम् । सबैरपि गुणैः औदार्यादिगुणहीनम, अभिहन्तारं हिंसन, शीलम्, प्रसाद विना क्रोधैकनिरतमिति यावत् । तं नरेश्वरं सैन्यास्संविनाः आहवे त्यजन्तीति योजना॥१०॥ एवमिति । रत्नाथैः रत्नैरबैश्च । संविभागेन यथाई
39
For Private And Personal Use Only