________________
Shri Mahavir Jain Archana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चित्रावयवम् । कूटागारेः मण्डपैः, परिक्षिप्तं व्याप्तम् । रजतप्रभम्, रजतशब्देन अब विशदत्वमुच्यते ॥ २५ ॥२५॥ पताकाभिः केवलध्वजैः । ध्वज सचिह्नः । हम्यैः अवान्तरराजगृहैः । हेमपद्मानि लम्बमानानि तेर्विभूषितम् । प्रकीर्ण व्याप्तम् । मुक्तामणिगवाक्षितं मुक्तामणिनिर्मितगवाक्षयुक्तम् । घण्टाजालैः परिक्षिप्तं चतुर्पु पार्थेषु किङ्किणीजालयुक्तम्, कोणेषु घण्टाजालयुक्तम्, अत एव मधुरस्वनम् ॥ २७ ॥२८॥ यन्मर्वित्यादिश्योकत्रयमेका पाण्डुराभिः पताकाभि जैश्च समलंकृतम् । शोभितं काञ्चनैर्हर्येहेमपद्मविभूषितम् ॥ २७॥ प्रकीर्ण किङ्किणी जालैर्मुक्तामणिगवाक्षितम् । घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ २८॥ यन्मेरुशिखराकारं निर्मितं विश्व कर्मणा । बहुभिर्भूषितं हम्मुक्तारजतसंनिभैः ॥ २९॥ तलैः स्फाटिकचित्राङ्गैवेंडूर्येश्च वरासनैः । महार्हास्तरणो पेतैरुपपन्नं महाधनैः॥३०॥ उपस्थितमनाधृष्यं तद्विमानं मनोजवम् । निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥३१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्विशत्युत्तरशततमः सर्गः ॥ १२४॥ उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् । अविदूरस्थितोरामं प्रत्युवाच विभीषणः॥१॥ स तु बद्धाञ्जलिः प्रहो विनीतो राक्षसेश्वरः। अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥२॥ तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः। विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥३॥ न्वयम् । मुक्तारजतसन्निभैः तन्निर्मलेरित्यर्थः । स्फाटिकचित्राङ्गैः स्फटिकमयचित्रावयवैः । महाधनः महामूल्यैः ॥२९-३१॥ रामानु- यन्मेरुशिखरा कारमिति पाठः ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्विशत्युत्तरशततमः सर्गः ॥ १२ ॥ अथ वानरसेनासम्माननम्-उपस्थितमित्यादि । तं दृष्ट्वा दर्शयित्वा । तत्कृत्वेति वा पाठः । प्रत्युवाच, विमानमागतमितीति शेषः । स विति द्वितीय श्लोकसङ्घहो वाऽयं श्लोकः ॥ १॥ त्वरयोपेतः आदरोपेत इत्यर्थः । किं करोमीति । इतः परं किं करवाणीत्यर्थः ॥२॥ लक्ष्मणस्योपशृण्वतः ॥ २७-३१ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाँ युद्धकाण्डव्याख्यायां चतुर्विशत्युत्तरशततमः सर्गः ॥ १२४ ॥ उपस्थितमिति । तं दृष्ट्रा तदर्शयित्वा । तत्कृत्वेति वा पाठः । अविदूरस्थितत्वादिविशेषणो विभीषणः पुष्पकमुपस्थितमासनं कृत्वा राममित्युवाच ॥१॥ कथमुवाचेत्यत आह
For Private And Personal Use Only