________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू.
एष इति । सागरे सगरखानिते । सलिलेति क्षीरोदादिव्यावृत्तिः । एष सेतुः नलसेतुः नलबद्धः । “षिञ् बन्धने" इति धातुः । एतेन नलसेतुः सेतुरित्युक्त्या ३५९॥ पूर्वकल्पकृत सेत्वन्तरं व्यावर्त्यते इति प्रत्युक्तम् । पूर्वमेव सेतुसत्त्वे पुनः सेतुकरणवैयर्थ्यात् ॥ १२ ॥ पश्येति । अपारं मध्ये द्वीपभूत पाररहितम् ॥ १३ ॥ रामानु० - शङ्खशुक्तिनिषेवित्तमित्यतः परं हिरण्यनाभमिति श्लोकः । अतः परम् एतत्कुक्षाविति श्लोकः अतः परं सेतुबन्धः इति श्लोकः । अतः परम् अत्र पूर्व महादेवः प्रसादमकरोदिभुः
एष सेतुर्मया बद्धः सागरे सलिलार्णवे । तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ १२ ॥ पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् । अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ १३ ॥ हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि । विश्रमार्थ हनुमतो. भित्त्वा सागरमुत्थितम् ॥ १४ ॥ एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ १५ ॥ एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः । सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् । एतत् पवित्रं परमं महापातक नाशनम् ॥ १६ ॥ अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ॥ १७ ॥
इत्येवं पाठक्रमः ॥ १३ ॥ हिरण्येति । हिरण्यनाभं मैनाकम् ॥ १४ ॥ एतदित्यर्धम् । कुक्षौ मध्ये । सेतूपरीति शेषः । स्कन्धावारनिवेशनं स्कन्धावारनिवे शनरूपस्थानम् 1 स्कन्धावारः शिविरम् ॥ १५ ॥ एतत्त्वित्यादिसार्धश्लोकमेकं वाक्यम् । पूजितं पूजितुमर्हम् । पूर्व सेतोर्दक्षिणकोटिरुक्ता, अत्रो त्तरकोटिरिति ज्ञेयम् । अनुगृहाति - एतदिति । पवित्रं पावनम्, महापातकनाशनं च, भविष्यतीति शेषः ॥ १६ ॥ एवं लङ्कामारभ्य सेतुबन्धपर्यन्त मुक्त्वा ततः उत्तरे दर्भशयनस्थानं निर्दिशति - अत्र पूर्वमिति । महादेव इति समुद्रराज उच्यते, औचित्यात् । प्रभुः समुद्रजलाधिष्ठाता । प्रसाद रात्रिम् ॥ ११ ॥ एषः नलसेतुः सेतुनिर्माणे नलः कारणमिति कथनार्थं नलसेतुरित्युक्तम् ॥ १२ ॥ १३ ॥ हिरण्यनाभं हिरण्यनाभनामानं मैनाकम् ॥ १४ ॥ कुक्षी मध्यप्रदेशे । स्कन्धावारनिवेशनं सेनानिवासस्थानम् ॥ १६ ॥ एतदिति । तीर्थ पुण्यक्षेत्रम् । सेतुबन्ध इति ख्यातं सेतुनिर्माणमूलप्रदेशत्वात्सेतुबन्ध इति प्रसिद्धम् ॥ १६ ॥ अत्र पूर्वमिति । महादेवः महादतेि जलं तद्रूपो देवः महादेवः समुद्रः । तथा च वैजयन्ती " स्नेहं स्निहां महच्छुद्धं वारुणं सर्वतोमुखम् " इति । यद्वा स० [अब तीरे पूर्व सेतुबन्धप्रारम्भसमये महादेवः पूजितस्सम् प्रसादं निर्विघ्नं सेतुसमा सिवायुपयोग्यनुग्रहम् अकरोत् । तत्स्थलं सीतायै प्रदर्श्य विमानादवतीर्थं तत्र विस्थापन रामश्चकार । क्षेत्रस्य नेत्रत्वाकरप्रार्थना युक्ता । अतः पूर्वमिः युक्तिरनुग्रहमात्रविषविणी । नतु प्रतिष्ठापनपरेति मन्तव्यम् । यथोक्तमानेयपुराणे एकोत्तराशीत्यध्याये" बन्योऽस्मि कृतकृत्योऽस्मि पूज्योऽस्मि पुरुषोत्तम । यद द्राक्षं सुदुर्दर्श स्वद्रूपं योगिपुङ्गवैः ॥ खदाइया मया पूर्व त्वद्भक्तिविमुखं हरे। शेवं पाशुपतं सच्छास्त्रं प्रवर्तितम् । तदिदानीं महापापं दिव्यरूपस्य दर्शनात् । सर्व विनष्टमेवेश तव राम प्रसादतः ॥ तरेयमेव
For Private And Personal Use Only
डी.पु.की. सं० १२६
1134911