________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मास ॥११३॥ ११४॥ ताः सर्वा इत्युत्तरखाक्यादि । रामपार्श्वमुपागम्येति । रणशिरसि हतत्वेन रावणस्याशौचाभावादागतः, अत एवोत्तरदिने राज्याभिषेकोऽयोध्यागमनं चानुष्ठितम् । प्रथमायां रावणसंस्कारः ॥ ११५॥ ११६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटा ख्याने युद्धकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ ११४॥
गम्यतामिति ताः सर्वा विविशुनगरं तदा । प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः। रामपार्श्वमुपागम्य तदा ऽतिष्ठदिनीतवत् ॥११५॥ रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः। हर्ष लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ ११६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ ११४॥ ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः। जग्मुः स्वैस्वैर्विमानस्ते कथयन्तःशुभाः कथाः ॥१॥रावणस्य वधं घोरं राघवस्य पराक्रमम् । सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥२॥ अनुरागं च वीर्य च सौमित्रेर्लक्ष्मणस्य च। [ पतिव्रतात्वं सीताया हनूमति पराक्रमम् । ] कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ॥३॥राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् । अनुज्ञाय महाभागो मातलि प्रत्यपूजयत् ॥४॥ अथ विभीषणाभिषेक:-ते रावणवधमित्यादि । अत्र क्रियाभेदात्तच्छन्दद्वयम् ॥ १ ॥ शुभाः कथाः कथयन्त इत्यस्यैव विवरणम् -रावणस्य वध AIमित्यादि । मन्त्रितं मन्त्रम् । सौमित्रेरिति तन्मातुःश्शाधनव्यञ्जनाय, अस्य जननी हि भाग्यवतीति ॥२॥३॥ इन्द्रदत्तम् इन्द्रप्रेरितम् । शिखिप्रभम् गम्यतामिति । उक्ता इति शेषः ॥११५॥११६॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायो चतुर्दशोत्तरशततमः सर्गः ॥ ११ ॥ त इति । स्वैः स्वकीयः ॥ १॥ कथाप्रकारमेवाह-रावणस्येत्यादिश्लोकदयेन ॥२॥३॥ अनुज्ञाय रथं, नयेति शेषः ॥ ४-६॥
स-शिखिप्रभम् अग्नितेजसम् । ननु वनपर्वणि " दृष्ट्रा राम तु जानक्या सङ्गतं शक्रसारथिः । उवाच परमप्रीतः सुहृन्मध्य इदं वचः ॥ देवगन्धर्वपक्षाणां मानुषासुरभोगिनाम् । अपनीत त्वया दुःखमिदं सत्यपराक्रम || सदेवासुरगन्धर्वा यक्षराक्षसपनगाः । कथयिम्पन्ति लोकास्त्वां यावद्भमिर्धरिष्यति ॥ इत्येवमुक्त्वाऽनुज्ञाप्य रामं शस्त्रभृतां वरम् । संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा।।" इति सीतासामनानन्तरं रथस्य समात: प्रेषणोत्तरत्र पूर्वमेव तदुक्तेविरोध इति चेत् ? सत्यम्; मारतस्योपरत्वा तदनुसारेण कयोहाप उत्तरत्रात्र कार्यः । मातलिना दृष्टसीतारामसङ्गगेन गमने सर्ववार्ताया न्द्र प्रति प्रतिवक्तुं सुशकत्वगुणलामाच । अथवा सङ्कोचेन कथा कथापितुर्बादरायणस्य न निरः पौर्वापर्यविषय इत्येवमुक्तिः । रावणहननानन्तरं सीतासङ्गत्यन्तरायस्पान्तराऽभावान्मातलिना स्वनाथं प्रति प्रतियोगितुं शक्यत्वाचेति वा समापिरवषेषः॥४॥
For Private And Personal Use Only