________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥३३५॥
अग्निप्रभम् । प्रत्यपूजयत् उपचचार॥४-६॥ परिष्वज्येति । प्रचोदितः विज्ञप्तः। बलालयं शिबिरम् ॥७॥ सत्यसम्पन्नत्वादिविशेषणं यथोक्तकारित्व टी.यु.का. द्योतनाय ॥ ८॥ विभीषणमित्यादिश्लोकद्वयमेकान्वयम् । लङ्कायामभिषेचय लङ्कायां गत्वाऽभिषेचय । समुद्रतीर एव लङ्काराज्याभिषेके कृतेऽपि पुन
" पणास०११५ राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः । दिव्यं तं रथमास्थाय दिवमेवारुरोह सः॥५॥ तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे । राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥६॥ परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः । पूज्यमानो हरि श्रेष्ठेराजगाम बलालयम् ॥७॥ अब्रवीच्च तदा रामः समीपपरिवर्तिनम् । सौमित्रिं सत्यसम्पन्न लक्ष्मणं दीप्ततेजसम् ॥ ८॥ विभीषणमिमं सौम्य लङ्कायामभिषेचय । अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥९॥ एष मे परमः कामो यदीम रावणानुजम् । लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ॥१०॥ एव मुक्तस्तु सौमित्री राघवेण महात्मना । तथेत्युक्त्वा तु संहृष्टः सौवर्ण घटमाददे ॥ ११ ॥ तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् । आदिदेश महासत्त्वान समुद्रसलिलानये ॥ १२ ॥ इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः। आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ॥ १३ ॥ ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने । घटेन
तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ॥ १४॥ विधानं रावणसिंहासनेऽभिषेकार्थम् । अनुरक्तमित्यनेन मित्रकृत्यमुक्तम् । भक्तमित्यनेन दास्यकृत्यम् । उपकारिणमित्यनेनानुरागभक्त्योः कार्यपर्यवसान मुक्तम् । परमः काम इत्यनेन शरणागतविभीषणाभिमतपरिपूरणमेव विजयस्यप्रधानप्रयोजनमित्यवगम्यते ॥९॥१०॥ एवमिति । घटमिति जात्येक वचनम् ॥११॥तमिति । आनये आनयने । हस्त इत्यत्रापि जात्येकवचनम्, वानरेन्द्राणामिति बहुवचनप्रयोगात् ॥१२॥ इतीति । आदेशादेतोरित्यर्थः। ॥३५॥ "इति हेतुप्रकरणप्रकारादिसमाप्तिषु" इत्यमरः । वानरा वानरोत्तमा इति वचनं वानरोत्तमत्वेऽपि मानुषत्वव्यावर्तनाय । समुद्रात् समुद्रेभ्यः ॥ १३॥१४॥ बलालयं शिविरमाजगाम । शुक्ल प्रतिपदि रावणसंस्कारबलालयप्रवेशौ ॥ ७-११॥ घटं हस्त इति जातावेकवचनम् ॥ १२-१८ ॥
For Private And Personal Use Only