SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir लङ्कायामित्यादिसायश्लोक एकान्वयः। अनेन रामनिदेशानन्तरमेव लक्ष्मणो विभीषणादिभिः मह लकां प्रविष्टवानित्यवगम्यते । मन्त्रदृष्टेन मन्त्रेषु वेदेषु दृष्टेन स्पष्टमवगम्यमानेन, विधिना प्रकारेण । शुद्धात्मानमित्यनेन रामाज्ञया अभिषेकमङ्गीकृतवान् । परमार्थस्तु रामकैडर्य एवासक्तोऽभूदित्यव लङ्कायां रक्षसां मध्ये राजानं रामशासनात् । विधिना मन्त्रदृष्टेन सुहृदणसमावृतम् । अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् ॥ १५॥ तस्यामात्या जहषिरे भक्ता ये चास्य राक्षसाः। दृष्ट्वाऽभिषिक्तं लङ्कायां राक्षसेन्द्र विभीषणम् ॥ १६ ॥ स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः। प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् । ॥ १७ ॥ अक्षतान मोदकान् लाजान् दिव्याः सुमनसस्तदा। आजङ्गरथ संहृष्टाः पौरास्तस्मै निशाचराः ॥ १८॥ स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् । मङ्गल्यं मङ्गलं सर्व लक्ष्मणाय च वीर्यवान् ॥ १९॥ कृतकार्य समृ द्धार्थं दृष्ट्वा रामो विभीषणम् । प्रतिजग्राह तत् सर्व तस्यैव प्रियकाम्यया ॥ २०॥ ततः शैलोपमं वीरं प्राञ्जलि पार्श्वतः स्थितम् । अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ॥२१॥ अनुमान्य महाराजमिमं सौम्य विभीषणम् ॥२२॥ गच्छ सौम्य पुरीलङ्कामनुज्ञाप्य यथाविधि । प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ॥२३॥ वैदेयै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् । आचश्व जयतां श्रेष्ठ रावणं च मया हतम् ॥ २४॥ गम्यते । आज्ञाकैङ्कय हि कर्तव्यम् ॥ १५ ॥ १६॥ स इति । प्रकृतीः अमात्यप्रभृतीन, सान्त्वयित्वा पुत्रमित्रादिविनाशजशोकापनोदनं कृत्वा । राममुपागमत, लक्ष्मणेन सहेति शेषः॥ १७॥१८॥ स तानिति । मङ्गलमहतीति मङ्गल्यम्, मङ्गलप्रयोजनमित्यर्थः । मङ्गलं हरिद्रादिमङ्गल पाद्रव्यम् । सर्वम् उक्ताक्षतादिभिन्नम् । रामाय लक्ष्मणाय च न्यवेदयत् ॥ १९ ॥ कृतकार्यमिति । तस्यैव प्रियकाम्यया न तु स्वभोगेच्छया ॥२०॥२१॥ अनुमान्येत्यादिसार्घश्लोकत्रयमेकान्वयम् । विभीषणमनुमान्य लङ्का गच्छ, विभीषणमनुज्ञाप्य रावणगृहं प्रविश्य विजयेन विजयकथनेन, आभिनन्द्य स तानिति । मङ्गल्यं मङ्गलप्रयोजनम् । मङ्गल मङ्गलवस्तुजातम् ॥ १९-२२ ॥ विजयेनामिनन्ध जयकथनेन नन्दयित्वा ॥ २३ ॥ २४ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy