________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चि
वा.रा.म. ॥३३४॥
टो.यु.का.
शेषः ॥ १०६॥ यज्ञपात्रान्तराणामपि प्रतिपत्ति दर्शयाते-पादयोरित्यादिना श्लोकत्रयेण । शकटं सोमराजानयनशकटम् । उलूखलं यज्ञीयत्रीयवहनन । साधनम् । अन्यत् स्थाल्यादिकं दारुपात्रादिकं यथास्थानं दत्त्वा, शास्त्रदृष्टेन वेदविहितेन, महर्षिविहितेन स्मृत्युक्तेन विधिना क्रमेण तत्र चितासमीपे मध्य पवित्रं पशुंछागं हत्वा, हननं होमपर्यन्तस्याप्युपलक्षणम् । परिस्तरणिकां परिस्तरणानि । जात्येकवचनम् । समवेशयन् चिक्षिपुरित्यर्थः ॥१०७-१०९॥ पादयोः शकटं प्रादुरन्तरूवारुलूखलम् । दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् । दत्त्वा तु मुसलं चान्यद्यथा स्थानं विचक्षणाः॥ १०७ ॥ शास्त्रदृष्टेन विधिना महर्षिविहितेन च । तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥१०८॥ परिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ॥१०९॥ गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः। विभीषण सहायास्ते वस्त्रैश्च विविधैरपि ॥१०॥ लाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा ॥१११॥ ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥११२॥ सात्वा चैवावस्त्रेण तिलान दूर्वाभिमिश्रितान् । उदकेन च संमिश्रान प्रदाय विधि पूर्वकम् ॥११३॥ प्रदाय चोदकं तस्मै मूर्धा चैनं नमस्य च । ताः खियोऽनुनयामास सान्त्वमुक्का पुनः पुनः ॥१४॥ अथ शवालङ्कारमाह-गन्धैरित्यादिसाश्चोकमेकं वाक्यम् । अवकिरन्ति, चितामिति शेषः ॥ १०॥ १११॥ अथ संस्कारमाह-ददाविति । तस्य तस्मै रावणाय । विधियुक्त मन्त्रयुक्तम् ॥ ११२ ॥ सात्वेत्यादि गम्यतामितीतिपर्यन्तं किञ्चिदधिकं लोकद्वयमेकान्वयम् । दूर्वोदकमिश्रितान् । तिलान् प्रेतावाहनार्थे भूमो प्रदाय तत्र तस्मै रावणाय उदकं दत्त्वा ताः खियः गम्यतामिति पुनः पुनः सान्त्वमुक्त्वा, अनुनयामास पुरीं प्रापया। आग्नेयभागे वेदि यथास्थानं पावकं च चरित्यनुपज्यते । पूषदाज्येन दधिसहितवृतेन । " पृषदाज्यं सदध्याज्यम्" इत्यमरः । पृषदाज्यपूर्णा बुवं प्रविक्षिपुः, अप्राविति शेषः ॥ १०६ ।। पादयोः शकटमित्यादिश्लोकत्रयमेकं वाक्यम् । अरणिं मथनारणिम्। शास्त्रदृष्टेन वेदविहितेन । महर्षिविहितेन स्मृत्युक्तेन यथास्थान सर्व दत्त्वा अनुस्तरणिको वृताक्ता समवेशयन अनुस्तरणिको राजगवीम, राजगवीमालभ्य नचर्मणा यजमानमास्तृतवन्त इत्यर्थः । “यथा मृतायानुस्तरणी प्रन्ति" इति श्रुतेः ॥ १०७-११२ ।। स्नात्वेत्यादि । प्रदाय विधिपूर्वकं, स्थित इति शेषः ॥ ११३ ॥ ११४ ॥
॥३३४॥
For Private And Personal Use Only