SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir अधर्मेत्यादिना ॥ ९९ ॥ संयुगेष्वपराजितत्वमुदाहरति-शतक्रत्विति ॥ १०॥ गुणबाहुल्येऽपि त्वबैरी कथं संस्कार्य इत्यत्राह-मरणेति । यथाऽयं तव बन्धुस्तथा ममापि त्वद्वत् बन्धुरेवायमित्यर्थः ॥१.१॥ यशोभागिति । पापकारिणमपि संस्कृतवानिति यशस्तव भविष्यतीत्यर्थः ॥ १०२॥ राघवस्यति । अनुरूपेण यायजूकानुगुणेन । अत्र संस्कारारम्भात स्त्रीनिवर्तनमर्थसिद्धम् ॥ १०३ ॥ चितामिति । चन्दनकाष्ठानां सम्बन्धिनीम् । पद्मक शतक्रतुमुखैर्देवैः श्रूयते न पराजितः। महात्मा बलसम्पन्नो रावणो लोकरावणः ॥ १० ॥ मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारोममाप्येष यथा तव ॥ १.१॥ त्वत्सकाशाद्दशग्रीवः संस्कार विधि पूर्वकम् । प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि ॥ १०२॥ राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः । संस्कारेणानुरूपेण योजयामास रावणम् ॥१०३ ॥ चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम् । ब्राहया संवेशया श्चक्रूराङ्कवास्तरणावृताम् ॥१०४॥वर्तते वेदविहितोराज्ञो वै पश्चिमः क्रतुः। प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम ॥ १०५॥ वेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम् । पृषदाज्येन सम्पूर्ण स्रुवं सर्वे प्रचिक्षिपुः ॥ १०६॥ मुशीरं च गन्धद्रव्यं प्रसिद्धम् । ब्राहया वेदोक्तप्रकियया। रङ्कः मृगविशेषः तत्सम्बन्धि चर्म रावं तदेवास्तरणं तेनावृतां चितां संवेशयाञ्चकुः योजया चक्रुः। रावणम्, ऋत्विज इति च शेषः ॥ १०४॥ पश्चिमः क्रतुः अन्त्येष्टिः । वर्तते अवर्तत चितानिर्माणानन्तरमान्तिमोष्टिं चक्रुरित्यर्थः । राक्षसे न्द्रिस्य पितृमेधं पितृमेधसंस्कारं च, अनुक्रम यथाक्रमं प्रचक्रुः ॥ १०५ ॥ सङ्ग्रहेणोक्तं संस्कारं प्रपञ्चयति-वेदिमित्यादिना । दक्षिणप्राच्यां चिताया आग्नेयभागे, वेदि तत्र यथास्थानं पावकं च त्रेताग्निं च प्रचरित्यनुपज्यते । वेद्या पश्चिमे गाईपत्यं प्राच्यामाहवनीयं दक्षिणतो दक्षिणानि च स्थापयामासुरित्यर्थः । पृपदाज्येन दधिमिश्रघृतेन । “पृपदाज्यं सदध्याज्यम्" इत्यमरः। संपूर्ण सवं होमपाचं प्रचिक्षिपुः प्रतिपत्त्यर्थं चितायामिति लोकद्वयन ॥ ९९ ॥ १०० ।। तथापि तव वैरित्वादसंस्कार्य इत्यत्राह-मरणान्तानीति । एष रावणः तव यथा तथा ममापि प्रीतिविषय इत्यर्षः ॥ १०१ ॥ १०२ ॥ अनुरूपेण संस्कारेण राज्ञा यज्वना महर्षीणाम् ॥ १०३ ।। पद्मकं सुगन्धद्रव्यविशेषः । ब्राह्या वेदोक्तक्रियया । संवेशयावा , रावणमिति ऋत्विज इति च शेष अत्र ऋत्विजः कर्तारः। रावास्तरणावृता रहुर्मूगविशेषः । तत्सम्बन्धिचर्म राकवम् ॥ १०४ ॥ पश्चिमः ऋतुः अन्त्येष्टिः ॥ १०५ ॥ दक्षिणप्राच्या चितायाः। For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy