Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 420 // चरियं मह एरिसं अउन्नस्स। एयं आलप्पालं अव्वो दूरं विसंवयइ ॥१॥हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं / जे किल लद्धविवेया विचेट्ठिमो बालबालव्व॥२॥त्ति, यत्रावसरेशीलानि-समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमWणादीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि-सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्वतोपभोगपरिभोगव्रतलक्षणे विरमणानि- अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्यानानि नमस्कारसहितादीनि पोषधः- पर्वदिनमष्टम्यादि तत्रोपवसनं- अभक्तार्थः पोषधोपवासः, एतेषांद्वन्द्वस्तान् प्रतिपद्यते- अभ्युपगच्छति तत्रापि च से तस्यैक आश्वासः प्रज्ञप्तो 1, यत्रापि च सामायिकं-सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिव्रतगृहीतस्य दिक्परिमाणस्य विभागे अवकाशोऽवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं-दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सङ्केपकरणलक्षणं सर्वव्रतसङ्केपकरणलक्षणंवा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापिच तस्यैक आश्वासःप्रज्ञप्त इति 2, उद्दिष्टेत्यमावास्या परिपूर्णमिति- अहोरात्रं यावद् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति 3, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना- तपोविशेषः सा चेति अपश्चिममारणान्तिकीसंलेखना तस्या जूसण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया जूसिय त्ति जुष्टः सेवितोऽथवा क्षपितः- क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन - ममापुण्यस्येदृशं चरित्रम् / एवमालप्यालमाश्चर्यं दूरं विसंवदति // 1 // हतमस्माकं ज्ञानं हतमस्माकं मानुष्यमाहात्म्यम् / यत्किल लब्धविवेका अपि लघुबाला इव चेष्टामः // 2 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 313-314 पत्र-पुष्पफल-च्छायोपगवृक्षवत् पुरुषाः, भारवाहकाश्वासवत् श्रमणोपासकाश्वासाः // 420 // 18888888888888888888
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538