Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 506 // पाठस्तत्र च सतो-विद्यमानान् गुणान् दीपयेद् वदेदित्यर्थः / अभ्यासो- हेवाको वर्णनीयासन्नता वा प्रत्ययो- निमित्तं यत्र दीपने तदभ्यासप्रत्ययम्, दृश्यते ह्यभ्यासान्निर्विषयापि निष्फलापिच प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य- पराभिप्रायस्यानुवृत्तिरनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतो:- प्रयोजननिमित्तं चिकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः / तथा कृते- उपकृते प्रतिकृतं- प्रत्युपकारस्तद्यस्यास्ति स कृतप्रतिकृतिकः इति वा कृतप्रत्युपकर्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा- एकेनैकस्योपकृतं गुणा वोत्कीर्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्त्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे। इदश्च गुणनाशनादिशरीरेण क्रियत इति शरीरस्योत्पत्तिनिर्वृत्तिसूत्राणांदण्डकद्वयम्, कण्ठ्यं चैतद्, नवरं क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति / चउहिं ठाणेहिं सरीरे त्याद्युक्तम्, क्रोधादिजन्यकर्मनिर्वर्तितत्वात् क्रोधादिभिर्निर्वर्तितं शरीरमित्यपदिष्टम्, इह चोत्पत्तिरारम्भमात्रं निर्वृत्तिस्तु निष्पत्तिरिति / क्रोधादयः शरीरनिर्वृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्मस्येत्याह चत्तारि धम्मदारा पन्नत्ता, तंजहा-खंती मुत्ती अज्जवे मद्दवे॥सूत्रम् 372 // चउहि ठाणेहिं जीवाणेरतियत्ताए कम्मं पकरेंति, तंजहा- महारंभताते महापरिग्गहयाते पंचिंदियवहेणं कुणिमाहारेणं 1, चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पगरेंति, तं०- माइल्लताते णियडिल्लताते अलियवयणेणं कूडतूलकूडमाणेणं 2, चउहिं ठाणेहिं जीवा मणुस्सत्ताते कम्मं पगरेंति, तंजहा- पगतिभद्दताते पगतिविणीययाए साणुक्कोसयाते अमच्छरिताते 3, चउहि ठाणेहिं जीवा देवाउयत्ताए कम्मं पगरेंति, तंजहा-सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामणिज्जराए 4 // सूत्रम् 373 / / चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थोद्देशकः सूत्रम् 372-375 धर्मद्वाराणि, महारम्भत्वादीनिनारकत्वादिकारणानि, वाद्य-नृत्यगेय-माल्याऽलङ्काराऽभिनयानां चातुर्विध्यम्, सनत्कुमारादिविमानवर्णमहाशुक्रादिदेवतनुमाने // 506 //
Loading... Page Navigation 1 ... 528 529 530 531 532 533 534 535 536 537 538