Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 509 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 376-377 उदकगर्भाः, मानुषीगर्भाः जघन्यतस्त्वङ्गलासङ्खयेयभागप्रमाणान्युत्पत्तिकाले भवधारणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गलसङ्खयेयभागप्रमाणानीति / अनन्तरं देववक्तव्यतोक्ता, देवाश्चाप्कायतयाऽप्युत्पद्यन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी त्यादि सूत्रद्वयमाह चत्तारि उदकगब्भा पं० तं०- उस्सा महिया सीता उसिणा, चत्तारि उदकगब्भा पं० तं०- हेमगा अन्भसंथडा सीतोसिणा पंचरूविता-माहे उ हेमगा गब्भा, फग्गुणे अब्भसंथडा। सीतोसिणा उचित्ते, वतिसाहे पंचरूविता ॥१॥सूत्रम् 376 // चत्तारि माणुस्सीगन्भा पं० तं०- इत्थित्ताए पुरिसत्ताए णपुंसगत्ताते बिंबत्ताए- अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजातति / अप्पं ओयंबटुसुक्कं, पुरिसो तत्थ पजातति॥१॥दोहंपिरत्तसुक्काणं, तुल्लभावेणपुंसओ। इत्थीतोतसमाओगे, बिंबंतत्थ पजायति॥२॥ सूत्रम् 377 // दगगब्भ त्ति दकस्य- उदकस्य गर्भा इव गर्भा दकगर्भाः- कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्वमिति, अवश्याय:-क्षपाजलं महिका- धूमिका शीतान्यात्यन्तिकानि एवमुष्णा- घर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्याहताः सन्तः षड्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तं-पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः / जलमत्स्येन सहोक्ता दशधा धातुप्रजनहेतुः॥१॥ तथा-शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम्। सर्वं गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः // 1 // (भद्रबाहु०१२/८) तथा सप्तमे 2 मासे, सप्तमे 2 ऽहनि / गर्भाः पाकं नियच्छन्ति, यादृशास्तादृशं फलम् // 1 // (भद्रबाहु०१२/४) हिम-तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, अब्भसंथड त्ति अभ्रसंस्थितानि मेघेराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां- गर्जितविधुज्जलवाताभ्रलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवं-पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः / नात्यर्थं मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥माघे // 509 //
Loading... Page Navigation 1 ... 531 532 533 534 535 536 537 538